________________
Jain Education Int
ञ्चित्प्राणिवधेऽपि प्राणवधपापं न भवति, यदाह - " उच्चालिअंमि पाए इरिआसमिअस्स संकमट्ठाए । वावज्जिज्ज कुलिंगी मरिज्ज तज्जोगमासज्ज ॥ १ ॥ न य तस्स तन्निमित्तो बंधो सुहमोवि देसिओ समए । अणवज्जो उवओगे, सबभावेण सो जम्हा ॥ २ ॥ ” तथा “जिअदु व मरदु व जीवो, अजदाचारस्स निच्छओ हिंसा । पयदस्स | णत्थि बंधो, हिंसामित्तेण समिदस्स ॥ १ ॥” तथा भाषाजातवाक्यशुद्ध्यध्ययनप्रतिपादितां सावद्यां भाषां धूर्त्तकामुकक्रव्यादचौरचार्वाकादिभाषितां निर्दम्भतया वर्जयतः सर्वजनीनं खल्पमप्यतिप्रयोजन साधकमसंदिग्धं च यद्भाषणं सा भाषासमितिः, यदाह - "महुरं निउणं थोवं, कज्जावडिअं अगविअमतुच्छं । पुत्रिं महसंकलिअं, भणंति जं धम्मसंजुत्तं ॥ १ ॥” इति, भाषायां सम्यगितिर्वा भाषासमितिः । तथा गवेषणग्रहणग्रासैषणादोष|रदूषितस्यान्नपानादे रजोहरणमुखवस्त्रिकाद्यौधिकोपधेः शय्यापीठफलकचर्मदण्डाद्यौपग्रहिकोपधेश्च विशुद्धस्य यहणं सा एषणासमितिः, यदाह - "उत्पादनोद्गमैषणधूमाङ्गारप्रमाणकारणतः संयोजनाच्च पिण्डं शोधयतामेषणासमिति" रिति । तथा आसनसंस्तारकपीठफलकवस्त्रपात्रदण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्वं रजोहरणादिना यत् गृह्णीयाद्यच निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेपसमितिः, अनुपयुक्तस्य प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचि - "पडिलेहणं कुणंतो” इत्यादिगाथाद्वयं । तथा पुरीषप्रश्रवणनिष्ठीवन श्लेष्मशरीरमलानुपकारिवसनान्नपानादीनां यज्जन्तुरहितस्थण्डिले उपयोगपूर्वकं परित्यजनं सा परिष्ठापनासमितिः । एताश्च पश्च समितयः गुप्तयश्च तिस्रो वक्ष्यमाणा आगमप्रसिद्धाः साधूनां
For Private & Personal Use Only
w.jainelibrary.org