SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१३०॥ Jain Education Inte | शेषाः पिण्डविशुद्ध्याद्याः, स्युरुत्तरगुणाः स्फुटम् । एषां चानतिचाराणां, पालनं ते त्वमी मताः॥४७॥ ‘शेषा’उक्तमूलगुणेभ्योऽवशिष्टाः, ते के इत्याह- 'पिण्डविशुद्ध्यायाः' इति पिण्डविशुद्धिः - आहारादिनिर्दोषता सा आदौ येषां भेदानां ते पिण्डविशुद्ध्याद्याः सप्तति भेदा इत्यर्थः, उत्तरगुणा - उत्तरगुणसंज्ञकाः 'स्फुटं' प्रकटं ' स्युः' भवेयुरिति सबन्धः, तत्रादिशब्दगृहीताः सप्ततिभेदास्त्विमे - “पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ | इंदिअनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ॥ १॥” व्याख्या-पिण्डस्य - आहारादेर्विविधमने कैराधाकर्मादिपरिहारैः शुद्धिर्निर्दोषता पिण्डविशुद्धिः, सा च पिण्डशब्देन पिण्डशय्यावस्त्रपात्रलक्षणवस्तुचतुष्टयग्रहणाच्चतुर्विधा पूर्वं दिनचर्यायां व्यावर्णितैव, समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा, अथवा | सम्यक् - प्रशस्तार्हत्प्रवचनानुसारेण इतिः- चेष्टा समितिः, सा च ईर्याभाषैषणादाननिक्षेपपारिष्ठापनिकाभेदात् | पञ्चधा, यतः - "इरिआ भासा एसण आयाणाईसु तहय परिठवणा । सम्मं जा उ पवित्ती, सा समए पंचहा एवं | ॥ १ ॥ तत्र सस्थावरजन्तुजाता भयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं खशरीररक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावन्निरीक्ष्य ईरणं ईर्ष्या-गतिस्तस्याः समितिरीर्यासमितिः, | यदाहु:- "पुरओ जुगमायाए, पेहमाणो महिं चरे । वज्जंतो बीअहरिआई, पाणे अ दगमहिअं ॥१॥ ओवायं विसमं खाणुं, विज्जलं परिवज्जए । संकमेण न गच्छेज्जा, विज्ज़माणे परक्कमे ॥ २ ॥ एवंविधोपयोगेन गच्छतो यतेः कथ For Private & Personal Use Only चरणकरसप्तती ॥१३०॥ w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy