________________
त्रयोर्ग्रहणं, यतः-"बारस अंगाइ सुनाणं तत्तत्थसद्दहाणंतु।दसणमेअंचरणं, विरई देसे असचे अ॥१॥"त्ति, तपः-पूर्वोक्तलक्षणं बाह्याभ्यन्तरभेदादू द्वादशविधं तपोऽधिकारे व्याख्यास्यमानं, क्रोधस्य निग्रहः क्रोधनिग्रहः, आदिशब्दान्माननिग्रहादिपरिग्रहः, एतद्भेदकदम्बकं चरणमिति-चरणसंज्ञं, एते भेदाः सप्ततिसंख्याश्चरणस्यचारित्रस्य भवन्तीति चरणसप्ततिसंज्ञा इत्यर्थः । अत्रायं विवेकः-चतुर्थव्रतान्तर्गतत्वेऽपि नवब्रह्मगुप्तीनां पृथगुपादानं तुर्यव्रतस्य निरपवादत्वसूचनार्थ, यत उक्तं आगमे-"न य किंचि अणुण्णायं, पडिसिद्धं वावि जिणवरिंदेहिं। मुत्तुं मेहुणभावं, न विणा तं रागदोसेहिं ॥१॥” इति । तथा व्रतग्रहणेन चारित्रस्य गतार्थत्वेऽपि ज्ञानादित्रिके चारित्रग्रहणं शेषचतुर्विधचारित्रसङ्ग्रहार्थ, व्रतशब्देन सामायिकादिपञ्चविधचारित्रस्यैकांशरूपसामायिकाभिधेय-12
स्वेन शेषचतुर्विधचारित्राग्रहणात्, तथा श्रवणधर्मान्तर्भूतत्वेऽपि संयमतपसोः पृथगुपन्यासस्तयोर्मोक्षाङ्गं प्रति IS प्राधान्यख्यापनार्थ, दृष्टश्चायं न्यायः यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इत्यादि, प्राधान्यं च तयोः क्रमे-|
णापूर्वकर्माश्रवरोधहेतुत्वेन पूर्वकर्मक्षयहेतुत्वेन च स्पष्टमेव, तथा तपोऽन्तर्भावेऽपि वैयावृत्यस्य भेदेनोपादानं तस्य खपरोपकारित्वेनानशनादिभ्योऽतिशायित्वोपदर्शनार्थ, तथा श्रमणधर्मग्रहणेन गृहीतानामपि क्रोधनिग्रहादीनां पृथगुपादानं उदयप्राप्तक्रोधादीनां निष्फलकरणं क्रोधादि निग्रह इति व्याख्यानात्, क्षान्त्यादीनां तु उदीर्णक्रोधाद्यनुदयरूपत्वात्, अथवा क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेया इति भेदात् ॥११७॥ इत्युक्ता मूलगुणाः। अथैतेभ्योऽतिरिक्तान गुणान् संज्ञान्तरेण दर्शयन् सर्वेषां चाचरणाप्राधान्यमुपवर्णयन्नाह
Join Education in
For Private & Personel Use Only
O
w.jainelibrary.org