SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्र अधिकारः ३ ॥१२९॥ Jain Education Int besese मुदायः ८ । कुलं बहूनां गच्छानामेकजातीयानां समूह चान्द्रादि ९, गच्छश्चैकाचार्यप्रणेयसाधुसमूहः, कुलसमुदायो गणः कौटिकादिः १०, एषां दशानामन्नपानवस्त्रपात्रोपाश्रयपीठफलकसंस्तारकादिद्भिर्द्धर्मसाधनैरुपग्रहः शुश्रूषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनसेवनादि वैयावृत्त्यं तथा ब्रह्म ब्रह्मचर्यं तस्य गुप्तयो नव, ताश्चेमाः'वसहि कहनिसिज्जिन्दिय कुडतर पुछकीलिए पणिए । अइमायाहारविभूसणाई नव बंभगुत्तीओ ॥ १ ॥' ब्रह्मचारिणा न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, विस्तारो भावनाधिकारे उक्तः १, स्त्रीणां केवलानामेकाकिना कथा धर्मदेशनालक्षणा वाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां संबंधिनी कथा न कार्या २ । निषद्या - आसनं, कोऽर्थः ? - स्त्रीभिः सहैकासने नोपविशेद्, उत्थिताखपि तासु मुहूर्त्तं तत्र नोपविशेत्, तदुपभुक्तासनस्य चित्तविकारहेतुत्वात्, स्त्रीणां च पुरुषासने यामत्रयं नोपवेष्टव्यं यतः - "पुरिसासणे तु इत्थी, जामतिअं जाव नो व उवविसह । इत्थीइ आसणंमी, वज्जेअवा नरेण दो घडिआ ॥ १ ॥" ३, इंद्रियाणि उपलक्षणत्वादङ्गानि स्तनजघनादीनि विस्फारितलोचनो न पश्येत्, तद्विलोकनस्य कामोदयहेतुत्वात् ४, कुड्यान्तरं यन्त्रान्तरस्थेऽपि कुख्यादौ दपन्त्योः सुरतादिशब्दः श्रूयते तत्त्यागः ५, पूर्वक्रीडां गृहस्थावस्थायां संभोगादिलक्षणां नानुस्मरेत् ६, प्रणीताहारस्य - अतिस्निग्धाहारस्य त्यागः ७, अतिमात्राहारं चाऽऽकण्ठमुदरपूरणं वर्जयेत् ८, विभूषस्नानं विलेपननखादिमार्जनादि न कुर्यात् ९, एता नवब्रह्मचर्यस्य गुप्तयो-रक्षणोपायाः । तथा ज्ञायतेऽनेनेति ज्ञानमाभिनिबोधिकादि तदादि यस्य तत् ज्ञानादि तच्च तत्रिकं चेति समासः, आदिशब्दात् सम्यग्दर्शनचारि For Private & Personal Use Only चरणकर सप्तती ॥ १२९ ॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy