________________
S सच्चं सोयं आकिंचणं च बंभं च जइधम्मो॥१॥"त्ति तत्र क्षान्ति:-क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः,
सर्वथा क्रोधविवेक इत्यर्थः। मृदु:-अस्तब्धस्तस्य भावः कर्म वा मार्दवं, नीचैवृत्तिरनुत्सेकश्च २। ऋजुरवक्रमनो-18 वाक्कायकर्मा तस्य भावः कर्म वा आर्जवं, मनोवाकायविक्रियाविरहो, मायाराहित्यमितियावत् ३। मोचनं मुक्ति-15 बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो, लोभपरित्याग इत्यर्थः४। तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तच द्वादशविधमनशनादिया संयम आश्रवविरतिलक्षणः६। सत्यं मृषावादविरतिः ७॥शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः ८। नास्ति किञ्चन-द्रव्यमस्येत्यकिञ्चनस्तस्य भाव आकिञ्चन्यं, उपलक्षणत्वादस्य शरीरधर्मोपकरणादिष्वपि निर्ममत्वमित्यर्थः ।नवब्रह्मचर्यगुप्तिसनाथ उपस्थासंयमो ब्रह्म १० । एष दशभेदो यतिधर्मः, अन्ये त्वेवं पठन्ति-"खंती मुत्ती अजव, मद्दव तह लाघवे तवे चेव । संजम चाओऽकिंचण, बोद्धयो बंभचेरे य ॥१॥ तत्र 'लाघवं' द्रव्यतोऽल्पोपधित्वं भावतो गौरववर्जनं, 'त्याग' सर्वसङ्गमोचनं यतिभ्यो वस्त्रादिदानं वा, शेष प्राग्वत् । २ तथा सम्-एकीभावेन यमः संयमः-उपरमः, स च पञ्चाश्रवविरमणपश्चेन्द्रियनिग्रहचतुष्कषा-12 यजयदण्डत्रयविरतिलक्षणः सप्तदशभेदः, यतः-“पञ्चासवा विरमणं, पश्चिंदियनिग्गहो कसायजओ । दंडत्तयस्स विरई, सतरसहा संजमो होइ॥१॥"त्ति, तत्र पञ्चाश्रवाः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहलक्षणाः अभिनवकर्मबन्धहेतवस्तेभ्यो विरमणं-निवर्तन, इन्द्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्रलक्षणानि पंच तेषां निग्रहो-नियन्त्रणं स्पर्शादिविषयेषु लाम्पट्यपरिहारेण वर्तनं । कषायाः-क्रोधमानमायालोभलक्षणाश्च
Educationa l
For Private Personel Use Only
How.jainelibrary.org