SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ S सच्चं सोयं आकिंचणं च बंभं च जइधम्मो॥१॥"त्ति तत्र क्षान्ति:-क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सर्वथा क्रोधविवेक इत्यर्थः। मृदु:-अस्तब्धस्तस्य भावः कर्म वा मार्दवं, नीचैवृत्तिरनुत्सेकश्च २। ऋजुरवक्रमनो-18 वाक्कायकर्मा तस्य भावः कर्म वा आर्जवं, मनोवाकायविक्रियाविरहो, मायाराहित्यमितियावत् ३। मोचनं मुक्ति-15 बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो, लोभपरित्याग इत्यर्थः४। तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तच द्वादशविधमनशनादिया संयम आश्रवविरतिलक्षणः६। सत्यं मृषावादविरतिः ७॥शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः ८। नास्ति किञ्चन-द्रव्यमस्येत्यकिञ्चनस्तस्य भाव आकिञ्चन्यं, उपलक्षणत्वादस्य शरीरधर्मोपकरणादिष्वपि निर्ममत्वमित्यर्थः ।नवब्रह्मचर्यगुप्तिसनाथ उपस्थासंयमो ब्रह्म १० । एष दशभेदो यतिधर्मः, अन्ये त्वेवं पठन्ति-"खंती मुत्ती अजव, मद्दव तह लाघवे तवे चेव । संजम चाओऽकिंचण, बोद्धयो बंभचेरे य ॥१॥ तत्र 'लाघवं' द्रव्यतोऽल्पोपधित्वं भावतो गौरववर्जनं, 'त्याग' सर्वसङ्गमोचनं यतिभ्यो वस्त्रादिदानं वा, शेष प्राग्वत् । २ तथा सम्-एकीभावेन यमः संयमः-उपरमः, स च पञ्चाश्रवविरमणपश्चेन्द्रियनिग्रहचतुष्कषा-12 यजयदण्डत्रयविरतिलक्षणः सप्तदशभेदः, यतः-“पञ्चासवा विरमणं, पश्चिंदियनिग्गहो कसायजओ । दंडत्तयस्स विरई, सतरसहा संजमो होइ॥१॥"त्ति, तत्र पञ्चाश्रवाः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहलक्षणाः अभिनवकर्मबन्धहेतवस्तेभ्यो विरमणं-निवर्तन, इन्द्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्रलक्षणानि पंच तेषां निग्रहो-नियन्त्रणं स्पर्शादिविषयेषु लाम्पट्यपरिहारेण वर्तनं । कषायाः-क्रोधमानमायालोभलक्षणाश्च Educationa l For Private Personel Use Only How.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy