SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१२८॥ Jain Education Inte त्वारस्तेषां जयः - अभिभव उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा-दुर्युक्तमनोवाक्कायास्तेषां त्र्यं तस्य विरतिरशुभप्रवृत्तिनिरोधः । एष सप्तदश| विधः संयमः अन्ये त्वन्यथापि पठन्ति, यतः - " पुढविदगअगणिमारुअवणस्सइबितिचउपणिदि अज्जीवे । पेहुप्पेहु | पमजण परिठवण मणोवईकाए ॥ १ ॥” पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः |करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा जीवसंयमः, तत्र- "संकप्पो संरंभो, परिता| वकरो भवे समारंभो । आरंभो उद्दवओ, सुद्धनयाणं तु सवेसिं ॥ १ ॥” तथा अजीवरूपाण्यपि पुस्तकादीनि दुःषमादिदोषात्तथाविधप्रज्ञायुष्कश्रद्धासंवेगोद्यमबलादिहीनाद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्वं यतनया धारयतोऽजीवसंयमः । तथा प्रेक्ष्य-चक्षुषा निरीक्ष्य बीजहरितजन्तुसंसक्त्यादिरहिते स्थाने | शयनासनचङ्कमणादीनि कुर्वतः प्रेक्षासंयमः । तथोपेक्षासंयमो गृहस्थस्य पापव्यापारं कुर्वत उपेक्षणं, न पुनरिदं ग्रामचिन्तनादि सोपयोगं कुरु इत्याद्युपदेशनम्, अथवा साधूनां संयमं प्रति सीदतां व्यापारणं प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्वन्धसानां व्यापारं प्रत्युपेक्षणं उपेक्षासंयम इति । तथा प्रेक्षितेऽपि स्थण्डिलवस्त्रपात्रादौ | रजोहरणादिना प्रमृज्य शयनासननिक्षेपादानादि कुर्वतः कृष्णभूप्रदेशाद्वा पाण्डुभूमादौ प्रवेशे सागारिकाद्य| निरीक्षणे च सचित्ताचित्तमिश्ररजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतः प्रमार्जनासंयमः, यदुक्तम् - " पायाई सागरिए, अपमजित्तावि संजमो होइ । पायाइ पमज्जंते, ऽसागरिए For Private & Personal Use Only चरणकरणसप्तती ॥१२८॥ w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy