SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१२८॥ Jain Education Inte त्वारस्तेषां जयः - अभिभव उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा-दुर्युक्तमनोवाक्कायास्तेषां त्र्यं तस्य विरतिरशुभप्रवृत्तिनिरोधः । एष सप्तदश| विधः संयमः अन्ये त्वन्यथापि पठन्ति, यतः - " पुढविदगअगणिमारुअवणस्सइबितिचउपणिदि अज्जीवे । पेहुप्पेहु | पमजण परिठवण मणोवईकाए ॥ १ ॥” पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः |करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा जीवसंयमः, तत्र- "संकप्पो संरंभो, परिता| वकरो भवे समारंभो । आरंभो उद्दवओ, सुद्धनयाणं तु सवेसिं ॥ १ ॥” तथा अजीवरूपाण्यपि पुस्तकादीनि दुःषमादिदोषात्तथाविधप्रज्ञायुष्कश्रद्धासंवेगोद्यमबलादिहीनाद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्वं यतनया धारयतोऽजीवसंयमः । तथा प्रेक्ष्य-चक्षुषा निरीक्ष्य बीजहरितजन्तुसंसक्त्यादिरहिते स्थाने | शयनासनचङ्कमणादीनि कुर्वतः प्रेक्षासंयमः । तथोपेक्षासंयमो गृहस्थस्य पापव्यापारं कुर्वत उपेक्षणं, न पुनरिदं ग्रामचिन्तनादि सोपयोगं कुरु इत्याद्युपदेशनम्, अथवा साधूनां संयमं प्रति सीदतां व्यापारणं प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्वन्धसानां व्यापारं प्रत्युपेक्षणं उपेक्षासंयम इति । तथा प्रेक्षितेऽपि स्थण्डिलवस्त्रपात्रादौ | रजोहरणादिना प्रमृज्य शयनासननिक्षेपादानादि कुर्वतः कृष्णभूप्रदेशाद्वा पाण्डुभूमादौ प्रवेशे सागारिकाद्य| निरीक्षणे च सचित्ताचित्तमिश्ररजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतः प्रमार्जनासंयमः, यदुक्तम् - " पायाई सागरिए, अपमजित्तावि संजमो होइ । पायाइ पमज्जंते, ऽसागरिए For Private & Personal Use Only चरणकरणसप्तती ॥१२८॥ w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy