________________
Jain Education Inter
कथा तस्यास्त्यागः, रागानुबन्धिनी हि देशजातिकुल नेपथ्य भाषागतिविभ्रमेङ्गितहास्य लीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कथा वात्येव चित्तोदधेरवश्यं विक्षोभमाद्धातीति द्वितीया भावना २ । प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहस्थावस्थायां यद्रतं - स्त्रीभिः सह निधुवनं तस्य स्मृतिः - स्मरणं तस्या वर्जनं, प्राग्रतस्मरणेन्धनाद्धि कामाग्निः सन्धुक्ष्यत इति तृतीया भावना ३ । स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि - स्पृहणीयानि अङ्गानि -मुखनयनस्तन| जघनादीनि तेषामीक्षणम् - अपूर्व विस्मयरस निर्भरतया विस्फारिताक्षस्य विलोकनं, ईक्षणमात्रं तु रागद्वेषरहितस्यादुष्टमेव, यदाह - "अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १ ॥” | इत्यादि । तथा स्वस्य - आत्मनोऽङ्गं शरीरं तस्य संस्कारः - स्नानविलेपन धूपननखदन्तकेशसम्मार्जनादि, स्त्रीरम्याङ्गेक्षणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात्, स्त्रीरम्याङ्गेक्षणतरलित विलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति, अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिका मयैर्विकल्पैर्वृथाऽऽत्मानमायामयतीति चतुर्थी भावना ४ । | प्रणीतो- वृष्यः, स्निग्ध मधुरादिरसः, अत्यशनम् - अप्रणीतस्यापि रुक्ष भैक्ष्यस्याऽऽकण्ठमुदरपूरणं, तयोस्त्यागो, निरअन्तरवृष्य स्निग्धर सप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते, अत्यशनस्य तु न केवलं ब्रह्मक्षितिकारित्वाद्वर्जनं, शरीरपीडाकारित्वादपि, यदाह - " अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भागे । वाउपवि आरणट्ठा, छन्भायं कणगं कुज्जा ॥ १ ॥” इति पञ्चमी भावना । एवं नवब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पञ्च भावना । अथ पञ्चमव्रतस्य भावना यथा-स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चखपीन्द्रियार्थेषु, गाढं
For Private & Personal Use Only
www.jainelibrary.org