SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह | एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्याद्, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मवन्धः स्यादिति महावत अधिकारः तृतीया भावना।धर्म चरन्तीति धार्मिका:समाना:-तुल्याःप्रतिपन्नकशासनाःसाधवस्तेभ्यः पूर्वगृहीतक्षेत्रेभ्योऽव-181 भावनाः ग्रहो मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपो याच्यस्तदनुज्ञानाद्धि तत्रासितव्यं, तदनुज्ञातं हि तत्रोपाश्रयादि| समस्तं गृहणीयाद्, अन्यथा चौर्य स्यादिति चतुर्थी भावना। अनुज्ञापिते-अनुज्ञया स्वीकृते ये अन्नपाने तयोरशनं, ॥१२६॥ सूत्रोक्तेन विधिना प्राशुकमेषणीयं कल्पनीयं च पानान्नमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात्, उपलक्षणमेतत् यत्किञ्चिदौघिकौपग्रहिकभेदभिन्नमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातं परिभोक्तव्यं, एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी भावना ३ । अथ चतुर्थवतभावना, यथा"स्त्रीषण्ढपशुमद्वेश्मासनकुख्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात्, प्राग्रतस्मृतिवर्जनात् ॥१॥ स्त्रीरम्याङ्गक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागात्, ब्रह्मचर्य तु भावयेत् ॥ २॥” स्त्रियो-देवमानुषभेदाविविधाः, एताश्च सचित्ताः, अचित्तास्तु प्रस्तरलेप्यचित्रकर्मादिनिर्मिताः, षण्ढास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंससेवनाभिरताः, पशवस्तिर्यग्योनिजाः, तत्र गोमहिषीवडवावालेयीअजाऽविकादयः संभाव्यमानमैथुनाः, एभ्यः कृतद्वन्द्वेभ्यो मतुप, स्त्रीषण्डपशुमती च ते वेश्मासने च, वेश्म वसतिः, आसनं संस्तारकादि, ॥१२६॥ कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते, ब्रह्मचर्यभङ्गभयादेषामुज्झनं-त्यागः, इति प्रथमभावना। सरागस्य-मोहोदयवतो या स्त्रीभिः स्त्रीणां वा कथा, सरागाश्च ताः स्त्रियश्च २ ताभिस्तासां वा Jan Education in For Private Personal use only Alwjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy