________________
Jain Education In
resese
वग्रहधारणम् ॥ १ ॥ समानधार्मिकेभ्यश्च तथाऽवग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥ २ ॥ " | आलोच्य मनसा विचिन्त्यावग्रहं याचेत, देवेन्द्रराजगृहपतिशय्यातरसाधर्मिक भेदाद्धि पञ्चावग्रहाः, अत्र च पूर्वः पूर्वो वाध्य उत्तर उत्तरो बाधकः, तत्र देवेन्द्रावग्रहो यथा-सौधर्माधिपतेर्दक्षिणलोकार्द्ध ईशानाधिपतेरुत्तरलोकार्द्ध, राजा चक्रवर्त्ती तस्यावग्रहो भरतादिवर्ष, गृहपतिर्मण्डलाधिपतिस्तस्यावग्रहस्तन्मण्डलादि, शय्यातरोवसतिखामी तदवग्रहो वसतिरेव, साधर्मिकाः - साधवस्तेषामवग्रहः शय्यातरप्रदत्तं गृहादि । प्रवचनसारोद्धारवृत्तौ वित्थं - साधर्मिकः सूरिः उपलक्षणत्वादुपाध्यायादिश्च । ततः स आचार्यादिर्यस्मिन् पुरे विहितवर्षाकालस्तन्नगरं गव्यूतपञ्चकादर्वाक् तस्याचार्यादेः प्रतिबद्धं तदवग्रह इत्यर्थः, अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासौ । तथा च तद्गन्धगाथोत्तरार्द्ध- 'साहम्मिओ उ सूरी, जम्मि पुरे विहिअवरसालो ॥ १ ॥ तप्पडिबद्धं तं जाव, दोन्निमासेहिं अओ जईण सया ।' इति । एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत, अस्वामियाचने हि परस्परविरोधेन अकाण्डगाट (निष्काश) नादय ऐहिका दोषाः, परलोकेऽपि अदत्तपरिभोगजनितं पापकर्म इति प्रथमभावना, सकृद्दत्तेऽप्यवग्रहे स्वामिनाऽभीक्ष्णं भूयोऽवग्रहयाचनं कार्य, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थासु मूत्रपुरीषोत्सर्गपात्र करणचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थं याचनीयानि इति द्वितीया भावना । 'एतावन्मात्रमेव' एतावत्परिमाणमेव एतत् क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं - व्यवस्थापनं, एवमवग्रहधारणे हि तदभ्यन्तरवर्त्तिनीमूर्द्धस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति, याच्ञाकाल
For Private & Personal Use Only
ww.jainelibrary.org