SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ३ ॥१२५॥ याभिस्ता भावनास्ताभिः, कियतीभिरित्याह-'प्रत्येक' एकं २ व्रतं प्रति 'स्फुटं प्रगट 'पञ्चभिः' पञ्चसङ्ख्याभिः महाव्रत'भावितान्येव' वासितान्येव भवन्ति न त्वभावितानि, ताश्चेत्थं योगशास्त्रे-"मनोगुस्येषणादानाभिः समिति- भावनाः भिस्सदा । दृष्टान्नपानग्रहणेनाहिंसां भावयेत्सुधीः॥॥" वृत्तिर्यथा-मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना, एषणा विशुद्धपिण्डग्रहणलक्षणा, तस्यां या समितिः, आदानग्रहणेन निक्षेप उपलक्ष्यते, तेन पीठादेग्रहणे स्थापने च या समितिः, ईरणमीर्या-गमनं तत्र या समितिः, आभिरेषणादानेर्यासमितिभिः, दृष्टयोरन्नपानयोग्रहणेनोपलक्षणत्वात्तद्वासेनाहिंसां भावयेदिति संबन्धः । इह च मनोगुप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात्, श्रूयते हि-प्रसन्नचन्द्रराजर्षिर्मनोगुप्त्याऽभावितोऽहिंसावतो हिंसामकुर्वन्नपि सप्तमपृथ्वीयोग्यं कर्म निर्ममे, एषणादानेर्यासमितयस्तु अहिंसायां नितरामुपकारिण्य इति युक्तं भावनात्वं, दृष्टान्नपानग्रहणं च संस-1 क्तानपानपरिहारेणाहिंसावतोपकारायेति पञ्चमी भावना । द्वितीयव्रतभावना यथा-"हास्यलोभभयक्रोधप्रत्या-IS ख्यानैर्निरन्तरम् । आलोच्यभाषणेनापि, भावयेत्सूनृतव्रतम् ॥२॥" हसन् हि मिथ्या ब्रूयात्, लोभपरवशश्चा-1 काङ्ख्या, भयातः प्राणादिरक्षणेच्छया, क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः, आलोच्यभाषणं-सम्यगज्ञानपूर्वकं पर्यालोच्य मृषा मा भूदिति मोहतिरस्कारद्वारण|| भाषणं पञ्चमी भावना, मोहस्य मृषावादहेतुत्वं प्रतीतमेव, यदाह-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनत"मिति। अथ तृतीयव्रतभावना, यथा-"आलोच्यावग्रहयाच्याऽभीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्य-181 ॥१२ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy