________________
Jain Education In
| धत्रिविधेन परिवर्जनं- त्यागः, तत् 'आकिञ्चन्यव्रतं' न विद्यते किञ्चन - द्रव्यं यस्यासावकिश्चनस्तस्य भाव आकिञ्चन्यं तच्च तद्वतं चेति समासः, अपरिग्रहव्रतमित्यर्थः 'प्रोक्तं' प्रज्ञसं, कैः ? - 'अर्हद्भिः' जिनैः, किंविशिष्टैस्तैः ? - 'हितका - विभिः' हितेच्छुभिरितिशब्दार्थः । भावार्थस्त्वयम् - मूच्छैव परिग्रहो युक्तियुक्तः, यतः असत्यपि धने धनगृद्धिवतो द्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति, सत्यपि वा द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्रीत्या चित्तविप्लवाभावः, अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वं, यदाह - "यद्वत्तुरगः सत्खप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १ ॥” यथा च धर्मोपकरणवतामपि मूर्च्छारहितानां मुनीनां न परिग्रहत्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां, तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥ ११५ ॥ इति प्रतिपादितं पञ्चमं व्रतं, तथा चोक्तानि पञ्चापि महाव्रतानि, अथापि तद्विषयमेव | विशेषमाह
एतानि भावनाभिश्च प्रत्येकं पञ्चभिः स्फुटम् । भवन्ति भावितान्येव, यथोक्तगुणभाञ्जि तु ॥ ४५ ॥
'च' पुनः 'एतानि पञ्च महाव्रतानि यथोक्तगुणान् सर्वथा हिंसात्यागादिलक्षणान् भजन्तीत्येवंशीलानि यथोक्तस्वरूपाणीत्यर्थः तुशब्दः पूर्वस्माद्विशेषणार्थः, भाव्यन्ते वास्यन्ते - गुणविशेषमारोप्यन्ते महाव्रतानि
For Private & Personal Use Only
ww.jainelibrary.org