________________
धर्मसंग्रहे
अधिकारः
३
॥१२४॥
Jain Education Int
१, जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते २, तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मादि गृह्यते ३, गुर्वदत्तं नाम खामिना दत्तमाधाकर्मादि| दोषरहितं गुरूनननुज्ञाप्य यद्गृह्यते इति ४, चतुर्विधस्याप्यत्र परिहारः ॥ ११३ ॥ इत्युक्तं तृतीयं व्रतं । अथ | चतुर्थमाह
दिव्यमानुषतैरश्च मैथुनेभ्यो निवर्त्तनम् । त्रिविधंत्रिविधेनैव तद्ब्रह्मव्रतमीरितम् ॥ ४३ ॥
दिवि भवं दिव्यं तच वैक्रियशरीरसंभवं, मनुष्ये भवं मानुषं मानुषदेहप्रभवं तिर्यक्षु भवं तैरचं, तिर्यग्योनिदेहसंभवं दिव्यं च मानुषं च तैरचं च तानि च तानि 'मैथुनानि' च मिथुनकर्माणि तेभ्यो निवर्त्तनं - विरमणं, तच्च देशतोऽपि स्यादित्यत आह- 'त्रिविधं त्रिविधेनेति' मनोवाक्कायैरकरणाकारणाननुमतिरूपभङ्गेन तद्ब्रह्मव्रतं ईरितं धातूनामनेकार्थत्वात्प्रतिपादितं जिनैरितिशेषः । एतेन "दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतं ॥ १ ॥" इत्यष्टादशविधब्रह्म सूचितमिति ॥ ११॥ दर्शितं तुर्यव्रतं । अथपञ्चमं तदाह
परिग्रहस्य सर्वस्य सर्वथा परिवर्जनम् | आकिञ्चन्यत्रतं प्रोक्तमर्हद्भिर्हितकाङ्क्षिभिः ॥ ४४ ॥ 'सर्वस्य' सचित्ताचित्तादिविषयस्य द्रव्यक्षेत्रकालभावविषयस्य वा 'परिग्रहस्य' मूर्च्छाभावस्य 'सर्वथा' त्रिवि -
For Private & Personal Use Only
उपस्था
पना०
॥१२४६)
w.jainelibrary.org