SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ यद्वाऽनभिगृहीता याऽर्थमनभिगृह्योच्यते डिस्थादिवत्, अभिगृहीता त्वर्थमभिगृह्य योच्यते घटादिवत् ९। संश-18 यकरणी या एका वाक् अनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा सैन्धवमानीयतामिति, सैन्धवशब्दस्य लवणपुरुषवाजिषु प्रवृत्तेः १० । व्याकृता या प्रकटार्था ११ । अव्याकृतातिगम्भीरशब्दार्था अव्यक्ताक्षरयुक्ता वा अविभावितार्थत्वादिति १२ । एते संमीलिता द्विचत्वारिंशद्भेदा भाषाया भवन्ति इति । एताश्चतस्रो भाषाः सम्यगवबोध्याः, आसु च प्रथमचतुर्यों वक्तव्ये, यतःसूत्रम्-"चउण्हं खलु भासाणं, परिसंखाय पण्णवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥१॥ जा य सच्चा अवत्तवा, सच्चामोसा य जा मुसा । जा य बुद्धेहिं नाइन्ना, न तं भासिज्जं पन्नवं ॥२॥ असच्चमोसं सच्चं च, अणवजमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भा-18 सिज्ज पन्नवं ॥३॥” इति भावितं द्वितीयं व्रतं ॥११॥ अथ तृतीयव्रतमाह सकलस्याप्यदत्तस्य, ग्रहणाद्विनिवर्त्तनम् । सर्वथा जीवनं यावत्तदस्तेयव्रतं मतम् ॥ ४२ ॥ _ 'सकलस्यापि चतुर्विधस्य नत्वेकादिविधस्येत्यपिशब्दार्थः 'अदत्तस्य' अनिसृष्टस्य ग्रहणं-आदानं तस्माद्यद्विनिवर्त्तनं-विरमणं तद् द्विविधंत्रिविधाद्यन्यतरभङ्गेनापि भवतीत्यत आह-'सर्वथा'सर्वप्रकारेण त्रिविधंत्रिविधेनेत्यर्थः, तदित्वरकालमपि स्यादित्यत आह-'जीवनं यावत्' प्राणधारणपर्यन्तं तदस्तेयं व्रतं' 'मत' प्रज्ञप्तं जिनैरिति शेषः ।। अत्रायं भावः-स्वामिजीवतीर्थकरगुर्वदत्तभेदेनादत्तं चतुर्विधं, तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिनाऽदत्तं Jan Education in For Private Personel Use Only Orainelorary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy