________________
धर्मसंग्रहेन्तकाय इति वदतोऽनन्तमिश्रिता, एवं प्रत्येकमनन्तेन सह दृष्ट्वा सर्वोऽपि प्रत्येक इति वदतः प्रत्येकमिश्रिता ८। उपस्थाअधिकारः अद्धा-कालः, स चेह प्रस्तावात् दिवसो रात्रिर्वा गृह्यते, सा मिश्रिता यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन पना०
त्वरयन दिवसेऽपि रात्रिर्जातेति वदति ९। तथा दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा
द्वाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव त्वरयमाणः कश्चन वक्ति-शीघ्रो भव, मध्याह्नो जात इति १० । अथ | ॥१२३॥
चतुर्थभाषाया द्वादश भेदाः, यथा-"आमंतणि १ आणवणी २, जायणी ३ तह पुच्छणी अ ४ पन्नवणी ५। पचक्खाणी ६ भासा, भासा इच्छाणुलोमा य ७ ॥१॥ अणभिग्गहिआ भासा ८, भासा य अभिग्गहंमि बोद्धव्वा ९ । संसयकरी अ१० भासा, वोअड ११ अबोअडा चेव १२॥२॥” आमन्त्रणे हे देवदत्त ! इत्यादिरूपा, एषा हि प्रागुक्तभाषात्रयविलक्षणत्वान्न सत्या न मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्याऽमृषा, एवं भावना कार्या १ । आज्ञापनी कार्ये परस्य प्रवर्त्तनं, यथेदं कुर्विति २॥ याचनी देहीतिमार्गणं ३।प्रच्छनी अविज्ञातस्य संदिग्धस्य वाऽर्थस्य परिज्ञानाय तद्विदः कथमेतदिति प्रच्छनं ४ प्रज्ञापनी विनेयजनस्योपदेशदानं, यथा प्राणिवधनिवृत्तेर्दीर्घायुरित्यादि ५।प्रत्याख्यानी याचमानस्य प्रतिषेधवचनं ६। इच्छानुलोमा नाम कार्य कर्तुमिच्छता केनचित्पृष्ट कश्चिदाह-करोति (तु) भवान् ममाप्येतदभिप्रेतमिति ७ । अनभिगृहीता ॥१२३॥ यतः प्रतिनियतार्थानवधारणं, यथा बहुषु कार्येषु उपस्थितेषु कश्चित् कञ्चन पृच्छति-किमिदानी करोमीति ?, स प्राह-यत्प्रतिभासते तत्कुर्विति ८। अभिगृहीता प्रतिनियतार्थावधारणरूपा यथेदमिदानी कर्त्तव्यमिदं नेति,
Jan Education inte
For Private Personel Use Only
www.jainelibrary.org