SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ यथा खल्पमूल्यस्य बहुमूल्यतोक्तिः ४ । प्रेमनिःमृता यथा दयिताया दासोऽस्मीति कथनं ५। द्वेषान्निःमृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि ६। हास्यान्निःमृता प्रतीतैव ७। भयान्निःसृता यथा चौरादिभयेऽसमअसभाषणं ८। आख्यायिकानिःसृता यथा कथावसंभव्यभिधानं ९ उपघातान्निःमृता चौरस्त्वजित्याद्यसभ्याख्यानमिति १०॥ अथ तृतीयाया दश भेदाः, यथा-"उप्पन्न १ विगय २ मीसग ३जीव ४ अजीवे अ५] जीवअज्जीवे। तह मीसिआ अणंता ७ परित्त ८ अद्धा य ९ अद्धद्धा १० ॥१॥” अत्र मिश्रिताशब्दस्य प्रत्येक योगादुत्पन्नमिश्रिता इत्यादि द्रष्टव्यं, ततश्च उत्पन्नमिश्रिताऽनुत्पन्नैः सह संख्यापूरणार्थं यया सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भाव्यं, तत्रोत्पन्नमिश्रिता क?, यथा कस्मिन् ग्रामे न्यूनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अत्राद्य जाता इत्यादि व्यवहरतः सत्यासत्या एव श्वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशत्यपि दत्ते लोके मृषात्वादर्शनात् अनुत्पन्नांशे च मृषात्वव्यवहारात् १। एवं मरणकथा विगतमिश्रिता २ अकृतनिश्चये जातस्य मृतस्य च कृतपरिणामस्याभिधाने मिश्रकमिश्रिता उत्पन्नविगतमिश्रितेत्यर्थः, यथाऽद्य दश जाता मृताश्चेति । तथा बहूनां जीवानां स्तोकानां च मृतानां शङ्खशङ्खनकादीनामेकत्र राशौ दृष्टे जीवराशिरयमिति भाषणं जीवमिश्रिता ४ । एवं प्रभूतेषु मृतेषु स्तोकेषु च जीवत्सु अजीवराशिरिति वाक्यं ५। तथा तस्मिन्नेव । राशौ अकृतनिश्चये एतावन्तो जीवन्त एतावन्तश्च मृता इति अवधारणवाक्यं च जीवाजीवमिश्रिता ६। तथा मूलकादि अनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचिद्वनस्पतिना मिश्रं विलोक्य सर्वोऽप्येषः अन-19 Jain Education inte For Private & Personel Use Only INow.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy