SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अधिकारः ॥१२२॥ समानेऽपि पङ्कसंभवे गोपालादीनां संमतमरविन्दमेव पङ्कजं न शेषमित्यरविन्दे सर्वसंमततया पङ्कजशब्दः उपस्था |सत्यः, कुवलयादावसत्योऽसंमतत्वादिति २। तथा स्थापनासत्या यथा एकपुरतो बिन्दुद्वये शतं, तत्रये च सहस्रं,IST पना० लेप्यादिषु अर्हद्विकल्पो वा ३ । तथा नाममात्रेण सत्या नामसत्या, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्यादि । एवं रूपतो रूपापेक्षया सत्या, यथा दम्भतो गृहीतयतिरूपो यतिरयमिति ५। तथा प्रतीत्याश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या, यथाऽनामिकायां कनिष्ठामाश्रित्य दीर्घत्वं मध्यमामधिकृत्य हखत्वमपि ६ । तथा व्यवहारतोलोकविवक्षातः सत्या व्यवहारसत्या, यथा गिरिदह्यते गलति भाजनं अनुदरा कन्या अलोमिका एडकेत्यादि । इत्थं च साधोरपि व्यवहारापेक्षया जल्पतो व्यवहारसत्या भाषा भवतीतिभावः ७ । तथा भावतो वर्णादिस्वरूपात् सत्या भावसत्या, यत्र यो भावो वर्णादिरुत्कटस्तेन सत्येत्यर्थः, यथा सत्यपि पञ्चवर्णसंभवे शुक्लवर्ण-18 स्योत्कटत्वाच्छङ्कः शुक्ल इत्यादि ८। तथा योगः-संबन्धस्तस्मात् सत्या योगसत्या, यथा छत्रयोगात् कदाचिच्छत्राभावेऽपि छत्रयोगस्य संभवाच्छत्रीत्यादि । औपम्यं-उपमा तेन सत्या औपम्यसत्या, यथा समुद्रवत्तटाकमिति १० । अथ द्वितीयाया दश भेदाः, यथा-"कोहे १ माणे २ माया ३ लोभे ४ पिज्जे ५ तहेव दोसे अ६। हासे ७ भए य ८ऽखाइअ ९ उवघाए १० निस्सिआ दसहा ॥१॥” निःसृताशब्दस्य प्रत्येकं योगात् क्रोधनिःसृता ॥१२२॥ क्रोधान्निर्गतेत्यर्थः, क्रोधेन विसंवादबुद्ध्या जल्पतः सत्यमप्यसत्यमेव, यथा वा क्रोधाददासं दासं ब्रूत इत्यादि, एवं मानान्निःसृता अनीश्वरोऽपि ईश्वरोऽहमिति ब्रूते २ । मायानिःसृता परवञ्चनाशयेन ३ । लोभान्निमृता! Jain Education in For Private 3 Personal Use Only teljainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy