________________
विद्यमानेभ्यो वा जीवादिभावेभ्यो हिता सत्या, वस्तुप्रतिष्ठासया संवादि वचनमित्यर्थः, तद्विपरीता मृषा वस्तुप्रतिष्ठासायां विसंवादि वचनमित्यर्थः, उभयस्वभावा सत्यामृषा, तिसृभ्यो विलक्षणा चासत्याऽमृषेति । एतच्च | भाषाचतुष्टयं व्यवहारनयादेशादेव विभज्यते, निश्चयतस्तूपयोगप्रामाण्यात् सत्यासत्यभेदेन भाषाद्वयमेव व्यवतिष्ठति, यदुक्तं भाषारहस्ये-"भासा चउचिहत्ति अ, ववहारणया सुअंमि पन्नत्तं । सचामुसत्ति भासा, दुविहा चिअ हंदि णिच्छयओ ॥१॥” इति । युक्तं चैतत्, आराधकत्वविराधकत्वाभ्यां भेदद्वयस्यैव व्यवस्थितेः, देशाराधकत्वविराधकत्वयोः शुद्धनयेऽनभ्युपगमात् , एकदा योगद्वयस्योपयोगद्यस्य चानिष्टेः, अन्यथा शबलकर्मबन्धप्रसङ्गादित्याद्यधिकं विशेषावश्यकादौ, इदमेवाभिप्रेत्योक्तं भगवता श्यामार्येण-"एआई भंते! चत्तारि भासज्जायाइं भासमाणे किं आराहए विराहए ?, गोअमा! आउत्तं भासमाणे आराहए, तेण परं असंजयअविरयअप्पडिहयअपञ्चक्खायपावकम्मे सचं वा भासं भासउ मोसं वा सच्चामोसं वा असच्चामोसं वा8 विराहए णो आराहए' इति कृतं प्रसङ्गेन । अथैतासामुत्तरभेदविवक्षायामाद्याया भेदा दश, ते चामी|"जणवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्च ६ सच्चे अ। ववहार ७ भाव ८ जोगा ९ दसमे ओवम्म-18 १. सच्चे अ ॥ ११ ॥१॥” जनपदेषु-देशेषु यदर्थवाचकतया रूढा सा देशान्तरेऽपि तदर्थावाचकतया त्यज्यमानापि सत्या, यथा कौङ्कणादिषु पयः पञ्चमित्यादि, सत्यता चास्या व्यवहारप्रवृत्तिहेतुत्वादित्यन्येष्वपि भावना कार्या १। तथा सकललोकसामान्येन सत्यतया प्रसिद्धा सम्मतसत्या यथा कुमुदकुवलयोत्पलतामरसानां |
Jain Education intQ
For Private Personal use only
Sijainelibrary.org