________________
उपस्थापना०
धर्मसंग्रहे सर्वथा सर्वतोऽलीकादप्रियाचाहितादपि । वचनाद्विनिवृत्तिर्या, तत्सत्यव्रतमुच्यते ॥ ११ ॥ अधिकारः
'सर्वतः' क्रोधादिसकलप्रकारजनितात् 'अलीकाद्' असत्यात् 'च' पुनः 'अप्रियाद्' अप्रीतिकारिणः तथा Is'अहितादपि आयतो अहितकारिणः, न केवलं अलीकादेवेत्यपिशब्दार्थः, एवंविधात् 'वचनात् 'या' 'सर्वथा' ॥१२॥
त्रिविधत्रिविधेन 'निवृत्तिः' विरमणं तत्सत्यं 'सत्यव्रतं' उच्यते जिनैरिति शेषः । ननु अलीकाद्वचनान्निवृत्तिरित्येवास्तु, सत्यव्रताधिकारात्, किमप्रियाहितयोर्ग्रहणं ? तयोरनधिकारात्, इति चेन्मैवं, व्यवहारतः सत्यस्यापि अप्रियस्याहितस्य च परमार्थतोऽसत्यत्वात् , यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति, तदप्रियत्वान्न तथ्यं, तथा च सूत्रम्-"तहेव काणं काणत्ति, पंडगं पंडगत्ति अ । वाहिवावि रोगित्ति, तेणं चोरित्ति नो वए |॥१॥” अत एव षड् भाषा अप्रशस्ता उक्ताः, तथाहि-हीलिअखिंसिअफरसा, अलिआ तह गारहस्थिआ भासा । छट्ठी पुण उवसंताहिगरणउल्लाससंजणणी॥१॥' इति । तथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुघातहेतुत्वान्न तथ्यं, तथा चोक्तं योगशास्त्रे-"न सत्यमपि भाषेत, परपीडाकरं वचः। लोकेऽपि श्रूयते यस्मात्कौशिको नरकं गतः॥१॥” इति । अत्र च व्रते चतस्रो भाषा द्विचत्वारिंशद्भेदभिन्नाः सम्यगवबोध्याः, ताश्चेमा:-"पढमा भासा सच्चा ?, बीआ उ मुसा २ तइयवि अ तासिं। सचामुसा असच्चामुसा पुणो तच्चउत्थी उ॥१॥” इति । भाष्यत इति भाषा, सा चतुर्विधा, तत्र सद्भ्यः उत्तमेभ्यो मूलोत्तरगुणेभ्यो
अप्रशस्ता उक्ता, १॥ इति । तथा
टा इति तजन्तुधातहतल्लाससंजणणी ॥१॥' इति । तसअफरसा, अलिआ तह गारह
सत्यमपि भाषेत स्वारिंशदभिन्ना
॥१२॥
Jain Education into
For Private & Personal Use Only
ww.jainelibrary.org