________________
Seeeeee
स्य लक्षणम् गाणि ॥१॥
धर्मसंग्रहे| वर्त्तते सबालवत्सा २, एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः। दोषा अप्यत्र पूर्ववद्वाच्याः। नपुंसकेषु दश
प्रव्रज्याअधिकारःदीक्षाऽयोग्याः, यथा-"पंडए १ वाइए २ कीबे ३, कुंभी ४ ईसालुए ५ त्ति अ। सउणी ६ तक्कम्मसेवी अ७, याःअनर्शः
पक्खिआपक्खिए इअ ८॥१॥सोगंधिए अ९ आसत्ते १०, दस एए नपुंसगा । संकिलिट्ठि(ह)त्ति काऊणं, पवावेउं अकप्पिआ॥२॥” पण्डकादयो दश नपुंसकाः, संक्लिष्टचित्ता इति साधूनां प्रव्राजयितुमकल्प्याः ।।४ संक्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरदाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्रीपुरुषसेवामाश्रित्य विज्ञेयम्, उभयासेविनो ह्येते, तत्र पण्डकस्य लक्षणम्-"महिलासहावो सरवण्णभेओ, मिंद महन्तं मउआ य वाणी। ससद्दयं मुत्तमफेणयं च, एआणि छप्पंडगलक्खणाणि ॥१॥” पुरुषाकारधारिणोऽपि महिलाखभावत्वं पण्डकस्यैकं लक्षणं, तथाहि-गतिस्त्रस्तपदाकुला मन्दा च भवति सशकं च पृष्ठतो विलोकमानो गच्छति शरीरं च शीतलं मृदु च भवति योषिदिवानवरतं हत्थोलकान् प्रयच्छति उदरोपरि तिर्यग्व्यवस्थापितवामकरतलस्योपरिष्टाद्दक्षिणकरकूपरं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहं च विक्षिपन् भाषते अभीक्ष्णं च कव्यां हस्तकं |ददाति प्रावरणाभावे स्त्रीववाहुभ्यां हृदयमाच्छादयति भाषमाणश्च पुनः पुनः साचिभूयुग्ममुत्क्षिपति केशबन्धप्रावरणादिकं स्त्रीवत्करोति योषिभूषणादिपरिधानं च बहु मन्यते स्नानादिकं प्रच्छन्ने समाचरति पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति स्त्रीसभायां तु निःशङ्कः रन्धनपेषणादि च स्त्रीकर्म करोति इत्यादिमहिलाखभावत्वं, तथा खरः-शब्दो वर्णश्च-शरीरसम्बन्धी, उपलक्षणत्वाद्गन्धादयश्च, स्त्रीपुरुषापेक्षया विलक्षणास्तस्य
च पृष्टता
Jain Education International
For Private & Personel Use Only
M
w .jainelibrary.org