SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मस्येति व्युत्पत्तेः, एतयोरप्यनर्थ एव १० । तथा गृहदास्याः संजातो दुर्भिक्षादिष्वर्थादिना वा क्रीतो दासस्त-181 दीक्षणे तत्वामिकृतोपद्रवः स्फुट एव ११ । तथा दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च, तत्राद्य उत्कटकोपवान्,81 द्वितीयोऽतीव परयोषिदादिषु गृद्धः, सोऽप्ययोग्योऽतिसंक्लिष्टाध्यवसायत्वात् १२॥ तथा लेहाज्ञानादिपरतत्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः, सोऽपि ज्ञानविवेकमूलायामहदीक्षायां नाधिक्रियते १३ । तथा ऋणातः प्रसिद्धः, तद्दीक्षणेऽप्युत्तमर्णकृतः पराभवो व्यक्त एव १४ । तथा जातिकर्मशरीरादिभिदूषितो जुङ्गितः, तत्र मातङ्गकोलिकगरुडसूचकच्छिम्पिकादयोऽस्पृश्या जातिजगिताः, स्पृश्या अपि सौकरिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिता, पङ्गुकुब्जवामनाऽकर्णादयः शरीरजुङ्गिताः, तेऽप्यनहर्हाः, लोकेऽवर्णवादसम्भवात् १५ । तथाऽर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा विवक्षितकालं यः परायत्तः सोऽवबद्धः, सोऽप्यनहः, कलहादिसम्भवात् १६ । भृतका रूपकादिवृत्त्या धनिनां गृहे स्थितः, सोऽपि दीक्ष्यमाणो धनिनामप्रीतिकर इत्यनह एव १७॥ तथा शैक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिका-अपहरणं शैक्षनिःस्फेटिका तद्योगान्मातापित्रादिभिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिःस्फेटिका, सोऽप्यदीक्ष्यः, खजनादीनां कर्मबन्धसम्भ-10 वात् , अदत्तादानादिदोषप्रसङ्गाच १८ । इत्येतेऽष्टादश पुरुषस्य-पुरुषाकारवतो दीक्षानहभेदा इति । तथा तेन-10 पुरुषेषूक्तप्रकारेण स्त्रीष्वपि अष्टादशभेदा भवन्ति, अयं भावः-येऽष्टादश बतायोग्या बालादयो भेदाः पुस्सू. तास्ते स्त्रीष्वपि ज्ञेयाः, अन्यावपिदाविमौ भवतो, यथा गुर्विणी-सगर्भा १, सह बालेन-स्तन(न्य)पायिना वत्सन18 Jain Education int041 For Private & Personal Use Only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy