SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥ ४ ॥ Jain Education Inter sesesed त्कारेणाङ्गनालिङ्गनादि कुर्यात् तत उड्डाहादिकारित्वाद्दीक्षाऽयोग्य एव ४ । तथा जडस्त्रिधा - भाषया शरीरेण करणेन च, भाषाजड्डुः पुनस्त्रिधा - जलमूको मन्मनमूक एलकमूकश्च तत्र जलमग्न इव बुडबुडायमानो यो | वक्ति स जलमूकः, यस्य तु वदतः खयमानमिव वचनं स्खलति स मन्मनमूकः, यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, तथा यः पथि भिक्षाटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो भवति स शरीरजडः, करणं क्रिया तस्यां जडुः करणजडुः समितिगुप्तिप्रत्युपेक्षणादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडतया यो गृहीतुं न शक्नोति स करणजड्ड इत्यर्थः, तत्र भाषाजस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यः, शरीरजस्तु मार्गगमन भक्तपानानयनादिष्वशक्तो भवति, तथाऽतिजस्य प्रखेदेन कक्षादिषु कुथितत्वं भवति, तेषां जलेन क्षालनेषु क्रियमाणेषु कीटिकादिप्लावना सम्भवति, ततः संयमविराधना, तथा लोको तिनिन्दां करोति बहुभक्षीति, तथोर्ध्वश्वासो भवति, ततोऽसौ न दीक्षणीयः ५ । तथा 'वाहिअ ' त्ति महारोगैर्व्याधितः, सोऽपि दीक्षाऽनहः, तच्चिकित्सने षट्कायविराधना स्वाध्यायहानिश्च ६ । तथा स्तेनः - चौरः, सोऽपि गच्छस्य नानाविधानर्थनिबन्धनतया दीक्षानर्ह एव ७ । तथा राजापकारी - राजसम्बन्धिद्रव्यपरिवारादिद्रोही, तद्दीक्षणे रुष्टराजकृता मारणदेशनिःसारणादयो दोषाः स्फुटा एव ८ । तथा यक्षादिभिः प्रबलमोहोदयेन वा परवश उन्मत्तः सोऽपि दीक्षाऽयोग्यः, यक्षादिभ्यः प्रत्यवायसम्भवात्, स्वाध्यायध्यानादिहानिप्रसङ्गाच्च ९ । तथा न विद्यते दर्शनं-दृष्टिरस्येत्यदर्शनः - अन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यो, न विद्यते दर्शनं-समक्त्व For Private & Personal Use Only प्रव्रज्यायाः अनर्शः ४८ ॥ ४ ॥ w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy