SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | चरणभावोऽवि पायमेएसिं । आहच्चभावकहगं सुतं पुण होइ नायव्वं ॥ १ ॥” इति व्याख्या - तेषामष्टवर्षाणामधो वर्त्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति, येन तेन वा शिशुत्वात्परिभूयन्ते तथा चरणभावोऽपि प्राय एतेषां न भवति, यत्पुनः 'छम्मासिअ ' मित्यादिसूत्रं तत्कादाचित्कभावकथकं, ततो वर्षाष्टकादधः परिभवक्षेत्रत्वात् चरणपरिणामाभावाच्च न दीक्ष्यन्त इति ॥ अन्यच्च - बालदीक्षणे संयमविराधनादयो दोषाः, स ह्ययोगोलकसमानो यतो यतः स्पन्दते ततस्ततोऽज्ञानित्वात् षट्कायवधो भवति, तथा निरनुकम्पाः श्रमणा यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिन्दन्तीति जननिन्दा । तत्परिचेष्टायां च मातृजनोचितायां | क्रियमाणायां स्वाध्यायपलिमन्थः स्यादिति १ । तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अन्ये त्वाहुः - अर्वा - गपीन्द्रियहानिदर्शनात्षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते, तस्यापि च समाधानादिकं दुःशक्यं, यदुक्तम्"उच्चासणं समीहइ विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खिअव्वो जह जाओ वासुदेवेणं ॥ १ ॥” इत्यादि, इदं च वर्षशतायुष्कं प्रति द्रष्टव्यम्, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुः तद्दशधा विभज्याष्टम| नवमदशमभागेषु वर्त्तमानस्य वृद्धत्वमवसेयम् २। तथा स्त्रीपुंसो भयाभिलाषी पुरुषाकृतिः पुरुषो नपुंसकः, सोऽपि बहुदोषकारित्वात् दीक्षानहो, 'बाले बुड्ढे अ थेरे अ' इति पाठस्तु निशीथादावदर्शनादुपेक्षितः ३ । तथा स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रिया अङ्गोपाङ्गानि दृष्ट्वा शब्द वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति, (तादृशो यः) पुरुषाकृतिः पुरुषः क्लीयः सोऽपि उत्कटवेदतया पुरुषवेदोदयात् बला For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy