________________
धर्मग्र
अधिकारः
इ
॥ ११६॥
Jain Education Inter
अप्राप्तोऽनुक्तकायादिरज्ञातार्थोऽपरीक्षितः । अनुपस्थापनीयोऽयं, गुरुणा पापभीरुणा ॥ ३७ ॥
'गुरुणा' अस्खलितशीलादिगुणोपेतेन 'अयं' उपदर्श्यमानः शिष्यः 'अनुपस्थापनीयः' नोपस्थापनाविषयीकार्यः, नास्य व्रतान्यारोपणीयानीत्यर्थः । स कीदृगित्याह- 'अप्राप्तः' पर्यायेणोपस्थापनाभूमिमनधिगतः, तथा 'अनुक्ता' अकथिताः 'कायाः' षट्कायखरूपाणि आदिशब्दाद्वतव्रतातिचारादयो यस्यासौ, पर्यायप्राप्तस्यापि षट्कायखरूपव्रतव्रतातिचाराद्यकथने हि षट्कार्यरक्षणाद्यसिद्धेः, तथा 'अज्ञात' अनभिगतः सम्यगनवधारित इतियावत् 'अर्थ:' सूत्रतात्पर्यं येन स तथा, गुरुणा कथितेऽपि कायादिखरूपे सम्यगनवबुद्धतत्प्रमेयस्य व्रतपालनासिद्धेः, पालनस्य बोधपूर्वकत्वात्, तथा 'अपरीक्षितः' अकृतपरीक्षः, ज्ञातार्थस्यापि परीक्षां विना छद्मस्थानां व्रतपरिणामालक्ष्यत्वात् । ईदृग् शिष्यो गुरुणा नोपस्थाप्यते तस्मात्प्राप्तः कथितकायादिभिगतार्थः परी| क्षितश्चोपस्थाप्य इति पर्यवस्यति, यतः - "अप्पत्ते अकहित्ता, अणभिगयऽपरिच्छणे अ आणाई । दोसा जिणेहिं भणिआ, तम्हा पत्तादुवद्वावे ॥ १९ ॥” त्ति, गुरुणा कीदृशेनेत्याह- 'पापभीरुणे 'ति पापानि अनुपस्थापनीयस्योपस्थापनाकरणजनिताऽऽज्ञा भङ्गानवस्थामिथ्यात्वसंयमात्मविराधनारूपाशुभकर्माणि तेभ्यो भीरुणा-भयवतेति समुदायार्थः, भावार्थस्त्वयम् - शिष्यस्य जघन्या मध्यमोत्कृष्टा चेति तिस्रो भूमयः, तत्र - जघन्या सप्तरात्रंदिवा, मध्यमा चातुर्मासिकी, उत्कृष्टा च षाण्मासिकीति । तत्र च क्षेत्रान्तरप्रब्रजिते करणजयार्थ जघन्या भूमिः,
For Private & Personal Use Only
उपस्थापना०
॥ ११६॥
jainelibrary.org