________________
Jain Education Inter
धयन्' पालयन् 'यतिः' उक्तलक्षण उपस्थाप्यन्ते व्रतान्यारोप्यन्ते यस्यां सा उपस्थापना - चारित्रविशेषस्तस्या अर्हो - योग्यो भवेत् इत्यन्वयः । अथ तस्या एव कर्त्तव्यतामाह - ' सा चेत्यादि, सा चोपस्थापना 'यथाविधि' सूत्रो क्तविध्यनुसारेण 'कार्या' विधेया, गुरुणेति शेषः ॥ १०६ ॥ अथोपस्थापनाहमेवाह
ज्ञातशस्त्रपरिज्ञादिस्त्यागादिगुणसंयुतः । प्रियधर्मावद्यभीरुरुपस्थाप्योऽयमुच्यते ॥ ३६ ॥
'अयं' यतिरुपस्थापनायार्ह उपस्थाप्यो - व्रतारोपणयोग्य 'उच्यते' प्रतिपाद्यते जिनैरिति शेषः, अयं कीदृगित्याह- 'ज्ञातशस्त्रपरिज्ञादिः ' ज्ञातमर्थतोऽधिगतं सूत्रतस्तूचितस्यैव पठनात् 'शस्त्रपरिज्ञा' आचाराङ्गप्रथमाध्ययनं तदादिश्रुतं येन स तथा, आदिशब्दाद्दशवैकालिकादिपरिग्रहः, अधिगतशस्त्रपरिज्ञादिर्हि यतनाकुशलो भवति, ज्ञानपूर्वकत्वाद्द्यायाः, यत आर्षम् - "पढमं नाणं तओ दया, एवं चिट्ठइ सङ्घसंजए । अन्नाणी किं काही ? किं वा नाहीहि ? छे अपावगं ॥ १ ॥” इति, तथा 'त्यागः' परिहरणं प्रस्तावात्परिग्रहादेः स आदिर्येषां ते तदादयस्ते च ते गुणाश्च श्रद्धा संवेगादयस्तैः संयुतः परिकलितः ज्ञातशस्त्रस्यापि त्यागश्रद्धासंवेगादिगुणविकलस्याङ्गारमर्दकादेरिव हिंसादिप्रवृत्तेरविरमणात्, तथा 'प्रियो' वल्लभ, एष परमार्थः, शेषोऽनर्थ इत्यवबुद्ध इत्यर्थः धर्मःअत्रैव शास्त्रे उक्तलक्षणो येनासौ तथा, तथा 'अवद्यं' पापं हिंसादि तस्माद्भीरुः - भयवान्, पापभीरोरेव पापेभ्यो | निवर्त्तनात् इत्युक्त उपस्थापनाहः ॥ १०७ ॥ अथ तत्प्रतिपक्षभूतमुपस्थापनानर्हमाह
For Private & Personal Use Only
v.jainelibrary.org