SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चतुर्थषष्टक्षपकस्तु अविकृष्ट इति, तत्रायं विधिः - अविकृष्टः खल्वाचार्येण प्रष्टव्यः - हे आयुष्मन् ! पारणके त्वं कीदृशो भवसि ?, यद्यसावाह ग्लानोपमः ततोऽसौ वाच्यः अलं तव क्षपणेन स्वाध्यायवैयावृत्त्यकरणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते 'विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवनपीष्यत एव,' यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव तत्राप्याचार्येण गच्छः प्रष्टव्यो, यथाऽयं | क्षपक उपसंपद्यत इति, अन्यथा सामाचारीविराधना, यतस्ते संदिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति । अथ पृष्टा ब्रुवते यथाऽस्माकमेकः क्षपकोऽस्त्येव तत्समाप्ताववश्यं करिष्यामः ततोऽसौ धियते, अथ नेच्छन्ति | ततस्त्यज्यते, गच्छस्यानुमतौ तु इष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्यं यत्पुनः प्रमादतोऽ| नाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीयाः, इत्यलं प्रसङ्गेन । चारित्रोपसंपद्विधिविशेषमाह - "उवसंपन्नो जं कारणं तु तं कारणं अपूरितो । अहवा समाणियंमी, सारणया वावि उस्सग्गो ॥ १ ॥” 'यन्निमित्तं | उपसंपन्नः' तुशब्दादन्यच्च सामाचार्यन्तर्गतं किमपि गृह्यते 'तत्कारणं' वैयावृत्त्यादिः 'अपूरयन' अकुर्वन् यदा वर्त्तत इत्यध्याहारः, ,किं ? - तदा तस्य स्मारणा क्रियतेऽविनीतस्य पुनर्विसर्गो वा क्रियते, तथा नानापूरयन्नेव यदा वर्त्तते तदैव स्मारणा विसर्गो वा क्रियते, किं तु-'अहवा समाणिअंमी'ति अथवा परिसमाप्तिं नीतेऽभ्युपगते प्रयोजने स्मारणा वा क्रियते, यथा समासं, तद्विसर्गो वेति संयतोपसम्पत् । अथ गृहस्थोपसंपद्यथा-तत्र साधूनामियं सामाचारी - सर्वत्रैवाध्वानादिषु वृक्षादधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह- "इन्तरिअपि न कप्पर, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy