SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥११३॥ ऽणुन्नाओ तेण संपज्जे ॥ २ ॥” इति, तत्राप्यपरिणतपरिवारमपरिवारं च नानुज्ञापयेद्गुरुं शिष्यः, न चान्योऽपि तं धारयेत्, संदिष्टः संदिष्टस्य समीप उपसम्पद्यते, तत्र मिथः परीक्षा भवति - साधूनाममार्गप्रवृत्तौ नोदनं | करोत्यागन्तुकः मिथ्यादुष्कृतदाने त्रयाणां वाराणामुपरि च गुरुकथने तत्संमतौ शीतलतया त्यागः, असंमतौ निवासः, गुरोरपि तं प्रति परुषाधिककथनं जीतं, उपयोगतः प्रतिपन्ने शुद्धौ, [अथ निवेदनं गुरोः श्रुतसम्बन्धादे| रेतावन्तं कालमर्थ इति । आभाव्यानुपालना च कार्या शिष्येण, नालबद्धवल्लीव्यतिरिक्तं देयं, गुरुणापि परिपालनीयं, एवं हि स्वस्यास्वामित्वं निःसंगतेत्यर्थः । गुरोश्च पूजा इतरापेक्षयाऽनालबद्धनिवेदनेन । अनेन कल्पेन | शुभाशयोपपत्तेः परिणमति श्रुते व्यर्थमित्याभाव्यदानं शिष्येण कर्त्तव्यं, गुरुणापि तदनुग्रहधिया ग्रहणं, न लोभादिति] द्विविधा चारित्रार्थाय, यथा- "वेयावच्चे खमणे काले आवकहाइ अ" चारित्रोपसंत् वैयावृत्त्यविषया क्षपणविषया च । इयं कालतो यावत्कथिका चकारादित्वरा च भवति, अयमर्थः - चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च क्षपकोऽप्युपसम्पद्यते द्विधा च भवतीति । अथ ज्ञानोपसंपद्विधिर्यथा- “मज्जण निसिज्जअक्खे, किइकम्मुस्सग्ग वंदणं जेट्टे । भासतो होइ जिट्ठो, नउ परियाएण तो वंदे ॥ १ ॥ एतद्व्याचिख्यासयैवेदमाह-"ठाणं पमज्जिकणं, दोन्नि निसिज्जा य हुंति कायद्वा । एगा गुरुणो भणिया, वितिआ पुण हुंति अक्खाणं ॥ २ ॥" "अक्खाणं'ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या | कार्येत्युत्सर्गः । व्याख्यातं द्वारत्रयं, कृतिकर्मव्याचिख्यासयाह - "दो चेव मत्तगाई, खेले काइअ सदोसगस्मुचिए । Jain Education International For Private & Personal Use Only दशधा सामाचारी ॥११३॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy