________________
eceneceseesesesesesesecene
कीप्रयोगकाले आवश्यिकीप्रयोगोऽपि नापादनीयः, तदानीमावश्यिकीक्रियाव्यापारस्योत्तरकालव्यापारपरित्यागाभिप्रायेणैव तत्प्रयोगादन्यतस्तदनिर्वाहादिति ५, आपृच्छादिविषया उक्ता एव ९, उपसंपच द्विधा, गृहस्थसाधूपसंपद्भेदात्, तत्रास्तां तावद्गृहस्थोपसंपत् साधूपसंपत्प्रतिपाद्यते, सा च त्रिविधा, ज्ञानादिभेदादाह च-"उवसंपया य तिविहा णाणे तह दंसणे चरित्ते अ । दसणणाणे तिविहा, दुविहा य चरित्तअट्ठाए ॥१॥" ज्ञाने ज्ञानविषया इत्यादिरर्थः, तत्र-दर्शनज्ञानयोस्त्रिविधा, यथा-"वत्तणा संधणा चेव, गहणा सुत्तत्थतदुभया । वेयावच्चे खमणे, काले आवकहाइ अ॥२॥ वर्त्तना सन्धना चैव ग्रहणमित्येतत्रितयं, 'सुत्तत्थतदुभय'त्ति सूत्रार्थोभयविषयमवगन्तव्यमित्येतदर्थमुपसंपद्यते । तत्र 'वर्त्तना' प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, 'सन्धना' तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलना योजना इत्यर्थः 'ग्रहणं' पुनस्तस्यैव तत्प्रथमतया आदानमिति । एतत्रितयं सूत्रार्थीभयविषयं द्रष्टव्यं, एवं ज्ञाने नव भेदाः, दर्शने-दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्याः, अत्र संदिष्टो गुरुणा संदिष्टस्याचार्यस्य यथाऽमुकस्योपसंपदं प्रयच्छेत्येवमादिचतुर्भङ्गी, तत्राद्य उक्तः, संदिष्टोऽसंदिष्टस्यान्यस्याचार्यस्येति द्वितीयः, असंदिष्टः संदिष्टस्य न तावदिदानी गन्तव्यं अमुकस्येति तृतीयः, असंदिष्टोऽसंदिष्टस्य न तावदिदानीं न चामुकस्येति चतुर्थः, अत्र पुनराद्यः शुद्धः, शेषास्त्वशुद्धा इति । यतः खगुरुसकाशे गृहीतसूत्रार्थस्तत्प्रथमतया तदधिकग्रहणसमर्थः प्राज्ञोऽनुज्ञातो गुरुणोपसम्पद्यतेऽभिप्रेतसमीप इत्युपसम्पदः कल्पः, तदुक्तं पञ्चवस्तुके-"उवसंपयाय कप्पो, सुगुरुसगासे गहीअसुत्तत्थो । तदहिगगहणसमत्थो
टोऽसंदिष्टखाचार्यस्येति द्वितीय यथाऽमुकस्योपस
ISRO
Jain Education Interol
For Private
Personel Use Only
Orw.ainelibrary.org