________________
धर्मसंग्रहे अधिकारः ३
॥ ११२ ॥
Jain Education In
| त्रयेन्द्रियस्य तिष्ठतः कारणे प्रवर्त्तमानस्यापि भवति, यतः - " आवस्सिआ उ आवस्सएहिं सवेहिं जुत्तजोगिस्स । मणवयणकायगुत्तिंदिअस्स आवस्सिआ होइ ॥ १ ॥” इति आवश्यकैः सर्वैर्युक्त योगिनो भवति शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि शेषं सुगमं, इत्यावश्यकीविषयः । नैषेधिकीविषयश्चावग्रहप्रवेशः, स च शय्यास्थानादिरूपो ज्ञेयः, यतः - "सेज्जं ठाणं च जहिं, चेएइ तहिं निसीहिआ होइ । जम्हा तत्थ निसिद्धो तेणं तु निसीहिआ होइ ॥ १ ॥ " इति । शय्या - शयनीयस्थानं तां, | स्थानमूर्द्धस्थानं कायोत्सर्ग इत्यर्थः तं च यत्र चेतयते इति जानाति करोति वा, शयनक्रियां च कुर्वता निश्चयतः शय्या कृता भवतीति, यत्र खपितीत्यर्थः चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थोऽथवा तुशब्दार्थो | ज्ञेयः स च विशेषणार्थः, कथं ?, प्रतिक्रमणाद्यशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यास्थानं च यत्र चेतयते | तत्रैवंविधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति नान्यत्र, यस्मात्तत्र निषिद्धोऽसौ, तेनैव कारणेन नैषेधिकी भवति, निषेधात्मकत्वात्तस्या इति, अर्थश्चानयोरेकगोचरत्वादेकः [ तथा देवगुर्ववग्रहभूप्रवेशेऽपि । नैषेधि| कीप्रयोगो भवतीति ज्ञेयमेव ] यतोऽवश्यकर्त्तव्यगोचरावश्यकी नैषेधिकी च पापकर्मनिषेधक्रियागोचरा, अवश्यकर्मपापनिषेधक्रिययोश्चैक्यादनयोरेकार्थत्वं, भेदोपन्यासस्तु अभिधानभेदात्, क्वचित् स्थितिगमनक्रियाभेदाच्च । [ अयं भावः - नैषेधिकीप्रयोगः खलु स्वप्राग्भाव्यनाभोगादिनिमित्तकप्रत्यवायपरिहारार्थं एवेष्यते, न च | गमनात् प्राक् संवृतगात्रतया स्थितस्य साधोः प्रत्यवायो भवति यत्परिहारार्थं नैषेधिकीं प्रयुञ्जीत, एवं नैषेधि
For Private & Personal Use Only
दशधा सामाचारी
॥ ११२ ॥
w.jainelibrary.org