SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Jain Education In आवश्यकी भवतीत्यापन्नं, यतः - "एगग्गस्स पसंतस्स, न हुंति इरिआदओ गुणा होंति । गंतव्वमवस्सं कारणम्मि आवस्सिआ होइ ॥ १ ॥ ति । एकमग्रमालम्बनमस्येति एकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवतीत्यत आह'प्रशांतस्य' क्रोधरहितस्य तिष्ठतः इर्यादयो न भवन्ति, अत्रेर्याशब्देन तत्कार्यं कर्म गृह्यते, कारणे कार्योपचारात्, आदिशब्दादात्मसंयमविराधनादिदोषाञ्च तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसंभवान्न गन्तव्यमेव, किन्तु 'गन्तव्यमवश्यं''। | नियोगत: 'कारणे' गुरुग्लानादिसंबन्धिनि, यतस्तत्रागच्छतो दोषा इति । अनेन च निष्कारणगमननिषेध उक्तः, कारणे च गच्छत आवश्यकी अवश्यंगन्तव्ये ज्ञानादित्रयहेतुभूते भिक्षाटनादौ कारणे सति विधेयाऽऽवश्यकीति व्युत्पत्तेरिति गाथार्थः [पञ्चाशकेऽप्युक्तम्- "कज्जे [णं] गच्छन्तस्स उ, गुरुणिओएण सुत्तणीईए । आवस्सिअत्ति णेआ, सुद्धा अण्णत्थजोगाओ ॥ १ ॥” 'कार्येण' प्रयोजनेन अनेन निष्कारणगमननिषेध उक्तः, 'गुरुनियोगेन' गुर्वनुज्ञयाऽनेन च स्वच्छन्दगमननिषेध उक्तः, 'सूत्रनीत्या' ईर्यासमित्यादिलक्षणेनानेन चानुपयुक्ततया गमननिषेध उक्तः, 'अण्णत्थजोगाओ'त्ति अन्वर्थयोगात् अनुगतशब्दार्थसंबंधात् अन्वर्थश्वोक्त एव, अत्र च कार्यं ज्ञानादि ज्ञेयं, तेन यत्किञ्चित्कार्यमवलम्ब्य गच्छतो नावश्यिकी शुद्धा भवतीत्युक्तं भवति, तथाचोक्तं तत्रैव' - "कज्जं च | णाणदंसणचरित्तजोगाण साहगं जं तु । जइणो सेसमकज्जं, ण तस्स आवस्सिआ सुद्धा ॥ १ ॥” इति ] न च कारणेन गच्छतः सर्वस्यैवावश्यिकी भवति, किं तु आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्त योगिनो गुप्तयोग - For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy