________________
दशधा
धर्मसंग्रहे
सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणा तस्यां गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्य अधिकारः इत्यर्थः, तथा सामान्येनोपदेशे चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा संबन्धिनि स कार्यः, तथा सूत्रा-सामाचारी
र्थिकथनायां व्याख्याने इत्यर्थः, अवितथमेतत् यदाहुयूयमिति, न केवलमुक्तेष्वेवार्थेषु तथाकारप्रवृत्तिस्तथा
प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च [तथाकारस्तथेति शब्दप्रयोगः कार्यों भवतीतिशेषः। ॥१११॥ अयं चोत्सर्गः, अपवादतस्तु कल्पाकल्पपरिनिष्ठितादिविशेषणविशिष्टवक्रभावे "सुद्धं सुसाहुधम्मं कहेइ निंदा
अनिअयमायारं । सुतवस्सिआण पुरओ, हवइ अ सबोमरायणिओ ॥१॥” इत्यादिलक्षणलक्षितसंविग्नपाक्षिकेन गीतार्थेन प्रज्ञापिते युक्तिक्षमे तदक्षमे वोच्यमाने तथाकारः कार्यः, तदन्यस्मिन्नसंविज्ञगीतार्थे संविग्नागीतार्थेऽसंविग्नागीतार्थे च वक्तरि सति युक्तिक्षमे वस्तुनि तथाशब्दः प्रयोज्यः न त्वयुक्तिक्षम, तदुक्तं पञ्चाशके|"इअरम्मि विगप्पेणं, जं जुत्तिखमं तहिं ण सेसंमी । संविग्गपक्खिए वा, गीए सवत्थ इअरेण ॥१॥” पूर्वार्द्ध | सुगम, परार्द्ध च पक्षान्तरे 'इतरेणे ति अपवादेनेत्यर्थः, तथा च सुसाधोः संविग्नपाक्षिकस्य च संवेगेन शुद्धभाषिणस्तथाकाराप्रयोगे मिथ्यात्वं, तदुक्तं तत्रैव-"संविग्गोऽणुवएसं, ण देइ दुब्भासिअं कडुविवागं । जाणंतो तंमि तहा, अतहक्कारो हु मिच्छत्तं ॥१॥” 'अतहकार'त्ति तथाकाराऽप्रयोगः ] २ अथावश्यिकीनषेधिक्योविषयौ यथासंख्येन निर्गमप्रवेशो, यतः-"आवस्सई च णितो, जं च अइंतो निसीहि कुणइ"त्ति 'णितो'त्ति निर्गच्छन् 'अइंतोत्ति आगच्छन् प्रविशन्नित्यर्थः । निर्गमश्च संयतस्य कारणिक एव, तथा च कारणे गच्छत
॥११
शा
Jain Education International
For Private & Personel Use Only
ww.jainelibrary.org