________________
शक्रिया साऽऽवश्यिकी तत्संसूचिका वागपि तथा ४, निषेधेन-असंवृतगावचेष्टानिवारणेन निवृत्ता तत्प्रयोजना
वा क्रिया-शय्यादिप्रवेशनक्रिया नैषेधिकी, तत्संसूचिका वागपि तथा ५, आ-मर्यादया-तथाविधविनयलक्ष-12 णयाऽभिविधिना वा-सर्वप्रयोजनाभिव्याप्तिलक्षणेन प्रच्छनं-गुरोः प्रश्नकरणमापृच्छा ६, तथा पुनः पृच्छा प्रतिपृच्छा, सा च भवतेदं कार्यमिति प्राग्नियुक्तेनापि करणकाले कार्या अहं तत्करोमीति, तत्र हि कदाचिदसौ।। कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति, निषिद्धेन वा पुनःप्रयोजनतः कर्तुकामेनेति ७, चः समुच्चये, तथा छन्दना च प्राग्गृहीताशनादेरशेषसाधुभ्यो मयेदमशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारण ग्रहणं करोत्विति दानार्थमभ्युत्थानं ८,तथा 'निमन्त्रणा' अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामीत्येवंभूता९, उपसंपदनमुपसंपत्-ज्ञानाद्यर्थ गुर्वन्तराश्रयणं, १० इति दशधासामाचारीसमासार्थः, विस्तरार्थस्तु प्रत्येकं स्वखविषयादिप्रदर्शनेन ज्ञेयः, स च यथा-उत्सर्गतः साधुना सति सामर्थ्य कार्यार्थ परोनाभ्यर्थयितव्यः, अनिगृहितबलवीर्येण भाव्यं, तत्कार्यस्य असामर्थ्य अप्रावीण्ये वा रत्नाधिकं विहायान्येषामभ्यर्थनाविषयमिच्छाकारं करोति, यदिवाऽनभ्यर्थितोऽपि कोऽप्यन्यस्तत्प्रयोजनकरणशक्तो निर्जरार्थी साधुः कञ्चन साधुं चिकीर्षितकार्य विनाशयन्तं गुरुतरकार्यकरणसमर्थमविनाशयन्तमपि अभ्यर्थयन्तं वाऽभिलषितकार्यकरणायान्यतरं साधु दृष्ट्वा तत्कार्य कर्तुकामस्तत्रापि इच्छाकारं प्रयुञ्जीत-'इच्छाकारेण युष्मदीयमिदं कार्य करोमी ति ? युष्माकमि-३ च्छाक्रियया करोमि, न बलादित्यर्थः, यत:-"जइ अन्भत्थिज परं, कारणजाए करेज से कोई । तत्थवि इच्छा
Jain Education
For Private & Personal Use Only
N
w
.jainelibrary.org