SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे । तानि, शेषाणि चातिचारालोचनशुद्धिरूपाणि त्रीणि तटाराणि यथास्थानं दर्शयिष्यन्त इत्यौधिकसामाचारीक्रमः दशधा अधिकारः ॥१०३॥ साम्प्रतं दशधापदविभागसामाचारीखरूपदर्शनायाह सामाचारी 8|इच्छामिच्छातथाकारा, गताऽवश्यनिषेधयोः। आपृच्छा प्रतिपृच्छा च, छन्दना च निमन्त्रणा ॥ ३३ ॥ ॥१०॥ 18 उपसंपञ्चेति जिनैः, प्रज्ञप्ता दशधाभिधा । भेदः पदविभागस्तु, स्यादुत्सर्गापवादयोः ॥३४॥ युग्मम् ।। ___ अमुना प्रकारेण 'जिनैः 'दशधाभिधा' दशधाख्या सामाचारी 'प्रज्ञप्ता' प्ररूपिता, सा च यथा इच्छे'त्यादि कारशब्दोऽत्र प्रयोगाभिधायी स चेच्छादिशब्देषु त्रिषु प्रत्येकमभिसम्बध्यते तत इच्छामिच्छातथेत्येषां श्रद्धार्थव्यली-|| कार्थावतध्यार्थानां शब्दानां कार:-करणं यथास्वविषयं प्रयोग इच्छामिथ्यातथाकार इति समासार्थः, अवयवार्थस्त्वयम्-एषणमिच्छा करणं कारः इच्छया बलाभियोगमन्तरेण करणं इच्छाकारः, इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु तव वाऽहं करोमीतिनिर्देशोऽभ्युपगमो वा इच्छाकार इतिफलितं १, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयम् २, तथाकरणं तथाकारः, ॥१०॥ सच सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवंखरूपः ३, तथा 'अवश्यनिषेधयोः' कृत्ययोः 'गता' प्राप्ता Sआवश्यिकी नैषेधिकी चेत्यर्थः, तत्रावश्यकर्त्तव्यैर्ज्ञानाद्यर्थप्रयोजनैर्निवृत्ता तत्प्रयोजना वा योपाश्रयादिनिर्गम साधवस्तता गोचरो यथा तनावश्यक Jain Education inte For Private & Personal Use Only Miw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy