________________
॥१०८॥
धर्मसंग्रहे || पवादः । इदानीं निद्रामोचने विधिमाह-'उद्वर्त्तनादी'त्यादि, उद्वर्त्तनमेकपादिन्यपार्श्वे भवनं, आदिशब्दात् द्वितीयतृअधिकारः परिवर्तनाकुश्चनादिग्रहः, तत्र यतना शरीरसंस्तारकप्रमार्जनारूपा, उक्तं च दिनचर्यायाम्-"उच्चत्तणपरिअत्तण- तीयतुर्य
18 पमुहं जइणो कुणंति जइ तत्तो । पडिलेहयंति पढम, सरीरयं तयणु संथारं ॥१॥” इति । तथा 'सन्मनोरथानां ग्रहरविधिः
उद्यतविहारविशेषसूत्राध्ययनाद्यभिलाषाणां चिन्तन-मनसि करणं, उक्तं च तत्रैव-"अब्भुजुअं बिहारं, भुवणुद्धारं च तइअजामंमि । चिंतिति जागरंता, झायंति गुरू तहा तत्तं ॥१॥ गुरुथेरबालपमुहा, निअनिअसमयंमि थोवकयनिद्दा । भावेणवि जग्गंता, ठवंति हिअए इमं सम्मं ॥२॥ निवाणपुररहेहिं, एमाइमणोरहेहिं धन्नाणं। जग्गंताणं जामिणिपच्छिमजामो समणुपत्तो॥३॥” इति ॥१०१॥ इदानीं तुर्ययामविषयं यत्कर्त्तव्यं तद्दर्शयन्नाह
प्राप्ते चतुर्थयामे तु, विश्रामणकृतिमुरोः। स्थविरावैर्जागरित्वा, तत्र वैरात्रिकग्रहः ॥ ३१ ॥ & 'चतुर्थयामे' तुर्यप्रहरे ‘प्राप्से' उपस्थिते तुशब्दः पूर्वस्माद्विशेषणार्थः, 'स्थविराद्यैः' स्थविरप्रमुखैालवृद्धादि
भिरपि 'जागरित्वा' निद्रां त्यक्त्वा 'गुरोः' आचार्यस्य 'विश्रामणकृतिः' विश्रामणाकरणं, तथा 'तत्र' चतुर्थयामे 'वैरात्रिकस्य कालविशेषस्य 'ग्रहो' ग्रहणं, अन्वयस्तूभयत्रापि प्राग्वत्, गुरवश्च तदा खपन्तीत्यनुक्तमपि ज्ञेयं, तदुक्तमोघनियुक्तिवृत्ती-"ताहे तइअपहरे अइक्कंते सो कालपडिलेहगो आयरिअं पडिसंदिसावेत्ता वेर
॥१०८॥
Jan Education Intemani
For Private
Personel Use Only
www.jainelibrary.org