________________
प्रमेयस्य "भावनं' चिन्तनं, अन्वयः प्राग्वदेव । 'तृतीये च' तृतीयप्रहरे प्राप्ते 'चः' समुच्चये 'तैः' स्थविरैरेव 'अईरात्रिककालस्य' द्वितीयकालस्य 'ग्रहणं' शुद्धतयोपादानं, अन्वयस्तूक्त एव, अयं भावः-सूत्रार्थचिन्तनया द्वितीयां पौरुषी निर्वाह्य तृतीयप्रहरप्रारम्भे च वृषभा एवोपाध्यायादीनां संदिशाप्य अर्द्धरात्रिककालं गृह्णन्ति, शेषैस्तदानीं सुप्तत्वात् , यदुक्तं दिनचर्यायाम्-"थेरा बिइअंजाम, सुत्तत्थं भावणाइ नीसेसं । अइवाइअ थिरहिअया, पत्ते तइमि जामंमि॥१॥ गिण्हंति अडरत्तिअ, कालं गुरुणो तओ विउझंति । पुव्वुत्तेणं विहिणा, थेरा निई पकुवंति ॥२॥” इति ॥१००॥ इदानीं तृतीयप्रहरविषयं यत्कर्त्तव्यं तत्प्रतिपादयन्नाह
ततोऽवबोधश्च गरोस्तेषां च शयनं तथा । उद्वर्तनादियतना, सन्मनोरथचिन्तनम् ॥ ३०॥ 'ततः' अर्द्धरात्रिककालग्रहणानन्तरं 'गुरोः' आचार्यस्य 'अवबोधो' जागरणं तेषां च' स्थविराणां ‘शयन खापः, उभयत्राप्यन्वयः प्राग्वदेव, गुरोर्जागरणं स्थविराणां च शयनं रात्रितृतीयपहरकृत्यमितिभावः तत्राप्ययं| विधिः-कालं गृहीत्वा आचार्यमुत्थापयन्ति, ततो वन्दनकं दत्त्वा शुद्धः काल इति पठन्ति, गुरवश्च तहत्तित्ति, ततस्ते खपन्ति, आचार्यश्च द्वितीयमुत्थाप्य कालं प्रतिचारयति, ततः सूत्रार्थ चिन्तयति, यावद्वैरात्रिककालसमयः, अशुद्ध त्वर्द्धरात्रिके प्राकशुद्धं प्रादोषिकमेव प्रवेदयित्वा स्वाध्यायं कुर्वन्ति, एवमग्रे वैरात्रिकेऽप्यशुद्ध पूर्वशुद्धमर्द्धरात्रिकं प्रवेदयित्वा स्वाध्यायं कुर्वन्ति, प्राभातिके चाशुद्धे तमेव निवेदयित्वा स्वाध्यायं कुर्वन्तीत्य
For Private Personal Use Only
a
w
Jnin Education India
.jainelibrary.org