SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ धर्मग्र अधिकारः ३ ॥१०७॥ तानि परिजीर्णानि (ततो) न त्रिभिः शीतं निवारयितुं पार्यते ततश्चाह-गुरुभिः - आचार्यैर्वितीर्णानि प्रकाशप्रत्युपे| क्षणानि जीर्णत्वादचौरहरणीयानि सप्त वस्त्राणि उत्कर्षतो गृह्णाति । इदमेव स्पष्टयति- “ तिण्णि कसिणे जहणे, पंच य दढदुब्बलाई गिहिज्जा । सत्त य परिजुन्नाई, एयं उक्कोसगं गहणं ॥ १ ॥” कृत्स्नानि नाम घनमसृणानि यैरन्तर्हितः सविता न दृश्यते शेषं सुगमम् ] इत्युक्तः शयनविधिः । दिनचर्यायामप्येवम् - "सक्कत्थयं भणित्ता, | संथारुत्तरपट्टगं च पेहित्ता । जोडित्ता जाणुवीरं, ठाविअ भूमिं पमज्जंति ॥ १ ॥ तं तत्थ अत्थरित्ता, करजुअलं इत्थ निसिअ पभणंति । अणुजाणह निस्सीही, नमो खमासमणपुज्जाणं ॥ २ ॥ ठाऊणं संथारे, पुत्तिं पेहिंति तिन्नि वाराओ । नवकारं सामाइअमुचारिअ वामपासेणं ॥ ३ ॥ उवहाणीकयबाहू, आकुंचिअ कुक्कुडिव दो पाए । अतरंता सुपमज्जिअ, भूमिं विहिणा पसारिंति ॥ ४ ॥ जइ मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहिदेहं सर्व्वं तिविहेण वोसिरिअं ॥ ५ ॥ इच्चाइ चिंतयंता, निद्दामुक्खं करेंति खणमेतं । तत्थवि निभरनिद्द, पमाय भीरू विवज्जति ॥ ६ ॥” इति । ॥ ९९ ॥ अथ द्वितीयप्रहरे सर्वेऽपि खपन्ति उताहो केचिज्जागरन्त्यपीति जिज्ञासायां पुरुषविशेषाश्रयं द्वितीयतृतीयप्रहरगतं विध्यन्तरमाह Jain Education International स्थविराणां द्वितीयेऽपि, यामे सूत्रार्थ भावनम् । अर्द्धरात्रिककालस्य, तृतीये ग्रहणं च तैः ॥ २९ ॥ 'स्थविराणां' वृषभगीतार्थानां 'द्वितीयेऽपि' न केवलं प्रथम एवेत्यपिशब्दार्थः 'यामे' प्रहरे 'सूत्रार्थस्य' सूत्र For Private & Personal Use Only शीतनिवारणं ॥१०७॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy