________________
seoeceedeseseseneceseseeeeese.
द्याति, बाह्यतस्तु सागारिकाणां स्तेनकादिशङ्कोत्पत्तिसंभवान्न प्रमार्जनादि कार्यमित्येवं प्रमाणयुक्तायां वसतौ वसतां विधिरुक्तः। यदा पुनः क्षुल्लिका वसतिः तदा पुरतो हस्तेन परामृशति पश्चात्पादौ प्रमृज्य न्यस्यति, ततश्चैवं यतनया बाह्यतो निर्गच्छति, यदि च तत्र स्तेनभयं तर्हि द्वौ निर्यातः, एको द्वारे तिष्ठत्यन्यः कायिका व्युत्सृजतीति । श्वापदभये तु त्रयस्तत्रैको द्वारे तिष्ठति, द्वितीयस्तदा कायिकां व्युत्सृजति, (तृतीयस्तु) प्रतिजागर्ति, एवं कायिकी व्युत्सृज्य संस्तारकं आगत ईर्यापथिको प्रतिक्रान्तः सन् जघन्यतोऽपि गाथात्रयं गणयति, तथाऽशक्तस्त्वन्यथापि खपित्येव । तत्र चोत्सर्गतः साधुरप्रावरणः स्वपिति, तथाऽशक्तस्तु क्रमेणैकं द्वौ बीन् वा कल्पान् प्रावृणोति, तथापि शीतत्तौ बाह्यतः कायोत्सर्ग कृत्वाऽतिशीतव्याप्तो मध्ये प्रविष्टो निवातमिति मन्यते ततः क्रमेणैकादिकल्पान् गर्दभदृष्टान्तेन प्रावृणोति, स चायं-समारोपितमानुरूपं भारं वोदुमनिच्छतो गर्दभस्य शिरस्यन्यो भार आरोप्यते स्वयं चारुह्यते ततः स्तोकं गते स्वयमुत्तरति ततो गर्दभो जानाति उत्तीर्णो मम भार इति शीघ्रं याति, ततोऽप्यन्यभारापनयने शीघ्रतरं याति, एवं साधुरपीति । अपवादेन तु यथा समाधिभवति तथा कर्त्तव्यं, यदुक्तमोघनियुक्तौ-“अतरंतो व निवज्जे, असंथरंतो व पाउणे इक्कं । गद्दहदिटुंतेणं, दो तिन्नि बहू जह समाही॥१॥" "अतरंतो व निवजेत्ति अशक्नुवन् गाथात्रयगणनं विना शेते इति पूर्वगाथार्थशेषः। [तथा बृहत्कल्पेऽपि-"अप्पा असंथरंतो, निवारिओ होइ तीहिं वत्थेहिं । गिण्हेइ गुरुविदिण्णे, पयासपडिलेहणे सत्त॥१॥" आत्मा-शरीरं स शीतादिना न संस्तरति तदा त्रिभिर्वस्त्रर्निवारितो भवति । अथवा
in Eduent an inte
For Private Personal Use Only
IMw.jainelibrary.org