________________
म दिवसस्स पढमपच्छिमजामाए वा तिजामाए ॥२॥” ॥ ८८ ॥ इदानीं कर्त्तव्यान्तरेणापि प्रथमपौरुषीनिर्गमनं,
तन्निर्गमने च यत्कर्त्तव्यं तदाह| साधुविश्रामणाद्यैश्च, निशाद्यप्रहरे गते । गुर्वादेशादिविधिना, संस्तारे शयनं तथा ॥ २८॥
साधवः-आचार्यग्लानप्राघुर्णकादयस्तेषां विश्रामणं-अमापनयनकरणं, आदिशब्दात्संबाधनादिग्रहस्तैः कर्त्तव्यैः, चकारात् प्रागुक्तस्वाध्यायादिना निशाया-राराद्ययामे-प्रथमप्रहरे 'गते' निष्ठां प्राप्ते सति 'संस्तारे' वक्ष्यमाणलक्षणे 'शयनं' वापः, सापेक्षयतिधर्मो भवतीत्यन्वयः। तच्चाविधिनापि भवतीत्यत आह-गुर्वादेशादि| विधिना' इति गुर्वादेशो-गुरोः संदिशापनं तदादिविधिना-तदादिविधिपूर्वक, तदुक्तं दिनचर्यायाम्-"सज्झायझाणगुरुजणगिलाणविस्सामणाइकज्जेहिं । जामंमि वइकंते, वंदिअ पेहंति मुहपोत्तिं ॥१॥ पढमंमि खमासमणे राइअसंथारसंदिसावणयं । पभणंति पुणो बिईए, राइअसंथारए ठामो॥२॥” संस्तारकश्चैकैकस्य साधोर्वाहल्यतस्त्रिहस्तप्रमाणः कर्त्तव्यः, इदं च प्रमाणयुक्तविस्तीर्णवसत्यपेक्षं वचः, यतो वसतिर्विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता चेति त्रिविधा, तत्राचार्याणां निवाता प्रवाता मिश्रा चेति संस्तारकभूमित्रयं, शेषाणां वेकैका, तत्र
विस्तीर्णायां चौरादिप्रवेशवारणाय पुष्पावकीर्णाः खपन्ति, क्षुल्लिकायां मध्ये पात्राणि मुक्त्वा मण्डल्याः पार्थे ॥ स्वपन्ति, प्रमाणयुक्तायां तु पतथा खपन्ति, तदुक्तमोघनिर्युक्तौ-"संथारगभूमितिअं, आयरिआणं तु सेसगा-1
For Private 8 Personal Use Only
www.jainelibrary.org
in Education Intern al