SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे| अधिकारः रात्रिप्रथमप्रहरक ॥१०॥ संहृत्य कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः निस्तरिष्यामि-लङ्कयिष्यामि, इतिकवा इति-IS हेतोः, शिरसेत्यादि प्राग्वत् । गुरुः प्राह-निस्तारकाः संसारसमुद्रात् प्राणिनां प्रतिज्ञाया वा पारगाः संसारसा- गरतीरगामिनो भवत यूयमित्याशीर्वचनमिति ४॥ पाक्षिकक्षामणावचूरिः ॥ अथ प्रतिक्रमकरणानन्तरकर्त्तव्य- माह-कालग्रह' इति, कालस्य-प्रस्तावात् प्रादोषिकस्य ग्रहो-ग्रहणं प्राग्वदन्वयः, अयं च कालो व्याघातिकोऽप्युच्यते, गुरूणां श्राद्धाने धर्मकथनेन संकीर्णशालायां वा वैदेशिकनिगमप्रवेशाभ्यां व्याघातसम्भवात्, न तत्र कालग्रहणं भवतीति भावः, तस्य कालमानमाह-'तारात्रयेक्षणे' इति, आकाशे तारकत्रितयदर्शने जायमाने सतीत्यर्थः, तारात्रिकदर्शनं च तदुपलक्षितसमयस्योपलक्षणं, तेन वर्षाकाले तददर्शनेऽपि तद्वेलायां प्रादोषिककालो गृह्यते, तदुक्तं दिनचर्यायाम्-"देवसिअ पडिक्कमणे, कयंमि गिण्हंति तयणु कयकरणा। तारातिअसंपिक्खणसमए पाओसिअंकालं॥१॥” इति । कालग्रहणविधिश्च योगविधितो ज्ञेयः। ततः कालग्रहणानन्तरं प्रादोषिककाले शुद्ध इत्यर्थः 'कालिकसूत्राणां' एकादशाङ्गादीनां आदिशब्दादुपाङ्गाद्युत्कालिकादीनामपि 'अध्ययनादि' पठनपाठनादि सापेक्षयतिधर्मो भवतीति प्राग्वदन्वयः। तच्चाविधिनापि भवतीत्यत आह-'यथाविधि' विधिमनतिक्रम्य यथा भवति तथा, स च प्राग्दर्शित एव । अशुद्धे तु काले उत्कालिकं नियुक्त्यादि वा गणयन्ति शृण्वन्ति ध्यायन्ति वा, तदुक्तं दिनचर्यायाम्-"अह वाघाइअकाले, सुद्धमि पढंति कालिअं सुत्तं। पुवगहिअंगणंति, अन्नह अन्नंपि अत्थं वा ॥१॥ कालिअसुअस्स कालो, भणिओ अज्झयणगणणसमयंमी। पादोषिककाले शुद्ध इत्यर्थं कालं ॥१॥” इति । कालक्रमणे, कयंमि गिण्हति ॥१०४॥ 9 Jain Education in ! For Private Personal use only Quvw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy