SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ युष्माभिरेवेदं मे दत्तं इत्यावेदयन् तद्हणे चाविनयं क्षमयन्नाह-युष्माभिः प्रीत्या दत्तं मयाऽविनयेन प्रतीप्सितं, शेषं स्पष्टं। गुरुराह-पूर्वाचार्यसत्कमेतत् किंममात्रेति, गर्ववर्जनार्थ गुरुभक्तिख्यापनार्थ चेदं ३॥ अथ यच्छिक्षा ग्राहितास्तमनुग्रहं बहुमन्यमानाः शिष्याः प्राहु:-"इच्छामि खमासमणो! अहम[वि] पुवाई कयाइं च मे किइकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता मे पडिचोअणा उवडिओ, तुन्भण्हं तवतेअसिरीए इमाओ चाउरंतसंसारकंताराओ साहट्ट नित्थरिस्सामित्तिकट्ठ सिरसा मणसा मत्थएणवंदामि" 'नित्थार पारगा होह' इति गुरुवाक्यं ॥ इच्छामि क्षमाश्रमणाः! अहं अपूर्वाणि-अनागतानि कृतिकर्माणीतियोगः कर्तुमिति गम्यं, कृतानि च मया कृतिकर्माणि भवतामिति गम्यं, तेषु च आचारान्तरे-ज्ञानाद्याचारव्यवच्छेदे, विण विनयव्यवच्छेदे ज्ञानादिक्रियाया अकरण इत्यर्थः, से०शिक्षितः स्वयमेव गुरुभिः शिक्षा ग्राहित इत्यर्थः, सेधितो वाऽऽचारविशेषविनयविशेषेषु कुशलीकृत इत्यर्थः, शिक्षापितः सेधापितो वा उपाध्यायादिपार्थात्, सं० संगृहीतः शिष्यत्वेनाश्रितः, उपगृहीतो ज्ञानादिभिर्वस्त्रादिभिश्चोपष्टम्भितः, सारितोहिते प्रवर्तितः, वारितोऽहितात्, चोदितः संयमस्खलनादौ न युक्तं भवादृशामिदमिति वारितः, प्रतिचोदितः तथैव पुनः पुनः प्रेरितः, 'चिअत्ता' प्रीतिविषया न त्वहङ्कारादप्रीतेति, प्रेरणा भवद्भिः क्रियमाणेति, उपलक्षणं चैतच्छिक्षादेरिति, ततश्च उपस्थितोऽहमस्मि प्रेरितार्थसंपादने कृतोद्यम इत्यर्थः, युष्माकं तपस्तेज:श्रिया हेतुभूतया तत्प्रभावादित्यर्थः, इतश्चातुरन्ताच्चतुर्गतिकात् O w.jainelibrary.org Jain Education in For Private & Personal Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy