SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte वतां 'हृष्टानां ' नीरोगाणां 'तुष्टानां' तोषवतां अल्पातङ्कानां अल्पशब्दस्याभावपरत्वाद्रोगमुक्तानां अभग्नसंयमयोगानां सुशीलानां - अष्टादशसहस्रशीलाङ्गोपेतानां शोभनपञ्चमहाव्रतानां आचार्योपाध्यायानां ज्ञानादिनाऽऽ - | त्मानं भावयतां बहुशुभेन - अत्यर्थं श्रेयसा ईषदूनश्रेयसा वा सर्वथा शुभस्यासंभवात् 'भे' इत्यामन्त्रणे भो भवन्तः ! दिवसो-दिनं किंविधः ? - पोषधः - पर्वरूपः अन्यश्च पक्ष इति वर्त्तते, भवतां कल्याणेन शुभेन युक्त इति गम्यं, पर्युपस्थितः - प्रक्रान्त आरब्ध इत्यर्थः । पुष्पमाणवा इव मङ्गलमभिधाय प्रणाममाहुः- शिरसा मनसा उपलक्षणाद्वाचेति ज्ञेयं, मत्थएणवंदामीति नमस्कारवचनं अव्युत्पन्नं समयप्रसिद्धं ज्ञेयं, अतः शिरसेत्यभिधाय मस्तकेनेत्युक्तं न दुष्टं । अत्राचार्यः प्राह- 'तुन्भेहिं' युष्माभिः सार्द्धं सर्वमेवैतत् संपन्नमित्यर्थः १ ॥ अथ चैत्यसाधुवन्दापनं निवेदयितुकामा भणन्ति - "इच्छामि खमासमणो ! पुधिं चेइआई वंदित्ता नर्मसित्ता तुम्भण्हं पायमूले विहरमाणेणं जे केइ बहुदेवसिआ साहुणे दिट्ठा सामाणा वा वसमाणा वा गामाणुगामं दूइज्माणा वा रायणिआ संपुच्छंति ओमरायणिआ वंदति अज्जया वंदंति अज्जिआओ वंदति सावया वदंति साविआओ वंदंति अहंपि निस्सल्लो निक्कसाओत्तिकट्टु सिरसा मणसा मत्थएणवंदामि ' अहमवि वंदामि चेहआई' इति गुरुवचनं । इच्छामि हे क्षमाश्रमणाः ! चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेषः । पूर्वकाले - विहारकालात् चैत्यानि - जिनप्रतिमाः वन्दित्वा स्तुतिभिर्नत्वा नमस्कृत्य प्रणामतः सङ्घसम्यक्त्वचैत्यव - न्दनाद्येतदहं करोमीतिप्रणिधानयोगात्, क वन्दित्वा इत्याह- युष्माकं पादमूले, विहरता मया ये केचन बहुदिव For Private & Personal Use Only ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy