________________
Jain Education Inte
निर्दोषः सावद्ययोगनिवृत्तस्त्रिदण्ड विरतः, निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्ध इति विशेषः । त्रिशल्यनिः शल्यः त्रिविधेन - त्रिप्रकारेण मनोवाक्कायरूपेण प्रतिक्रान्तः - प्रतिनिवृत्तः, पञ्च महाव्रतानि रक्षामि ॥ अथ महाव्रतोच्चारस्तुतिमाह - " इच्चेइअं महवयउच्चारणं थिरत्तं सल्लुद्धरणं घिइबलं ववसाओ साहणट्ठो पावनिवारणं निकायणा | भावविसोही पडागाहरणं णिजूहणाराहणा गुणाणं संवरजोगो पसत्थझाणोवउत्तया जत्तया य नाणे परमट्ठो उत्तमट्ठो एस (खलु ) तित्थंकरेहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छजीवनिकायसंजमं उवएसिडं | तेलुक्कसक्कयं ठाणं अब्भुवगया णमुत्थु ते सिद्ध बुद्ध मुक्त नीरय निस्संग माणमूरण गुणरयणसायरमणंतमप्पमेय | महइमहावीर वद्धमाण सामिस्स नमुत्थु ते अरहओ, नमोत्थु ते भगवओ, तिकड एसा खलु महवयउच्चारणा कया इच्छामो सुत्तकित्तणं काउं” व्याख्या - इत्येतदनन्तरोदितमितिशेषः, 'महाव्रतोचारणं' कृतमितिशेषः, अत्र च को गुणोऽथवा तत्कथंभूतमित्याह- 'स्थिरत्वं' महाव्रतेष्वेव धर्मे वा स्थैर्यहेतुत्वान्निश्चलं भवति 'शल्योद्धरणं' तत्कारणत्वात् धृतेश्चित्तसमाधेर्बलमवष्टम्भः, 'व्यवसायो' दुष्करकरणाध्यवसायः, 'साधनं' करणं तल्लक्षणोऽर्थः साधनार्थः मोक्षोपाय इत्यर्थः, निकाचनेव निकाचना, खव्रतप्रतिपत्तिदृढतरनिबन्धनमित्यर्थः, शुभकर्मणां निकाचनाहेतुत्वान्निकाचनेदमुच्यते, भावस्य- आत्मपरिणामस्य विशोधिकारणत्वाद्भावविशोधिः, पताकायाःचारित्राराधनावैजयन्त्या हरणं-ग्रहणं, पताकाहरणं, निर्यूहना- निष्काशना कर्मशत्रूणामात्मनगरान्निर्वासनेत्यअर्थ:, आराधना-अखण्डनिष्पादना, गुणानां मुक्तिसाधकजीवव्यापाराणां, संवरयोगः - नूतनकर्मनिरोधः संवर
For Private & Personal Use Only
www.jainelibrary.org