SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ धर्मग्र अधिकारः ३ ॥ ९७ ॥ | सप्तविधं पूर्वापरनिपातनाद्विभङ्गज्ञानं, “इग १ पणदिसिलोगगमो २, किरिआवरणो ३ जिओ तणू ४ ऽणुमओ ५ । रूवी ६ सवं जीवो ७ सगविभंगा" इत्येवंरूपं । परि० शेषं० । पिण्डेषणाः पानैषणाश्च सप्त व्याख्यातपूर्वाः, अवग्रहप्रतिमा वसत्यभिग्रहा इत्यर्थः, त(य) था - "जहाचिंतिय १ सपरिग्गह २ सउग्गह ३ परुग्गहे ४ सागारिअ ५ संथारुग्गहा ६ अहसंथडि ७ उग्गहा सत्त, तत्र पूर्वमेव विचिन्त्यैवंभूत उपाश्रयो ग्राह्यो नान्यथा, तमेव याचित्वा गृह्णतः प्रथमा १, अहमन्येषां कृतेऽवग्रहं ग्रहीष्यामि अन्येषां वाऽवग्रहे गृहीते वत्स्यामीति प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां सांभोगिकानामसांभोगिकानां वोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति २, अन्यार्थमवग्रहूं याचिष्ये, अन्यावगृहीते तु न स्थास्यामीति तृतीया, ३, एषा वहालन्दकानां यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त आचार्यार्थ तं याचन्त इति ३, अहमन्येषां कृतेऽवग्रहं न याचिष्ये, अन्यगृहीते तु वत्स्यामीति इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पिकार्थं परिकर्म कुर्वतां स्यात् ४, अहमात्मकृतेऽवग्रहं | याचिष्ये नान्येषां, इयं तु जिनकल्पिकस्येति ५, यदीयमवग्रहं ग्रहीष्ये तदीयमेव चेत्कटादिसंस्तारकं ग्रही| ष्यामि इतरथोत्कटुको वोपविष्टो वा रजनीं गमयिष्यामि, एषापि जिनकल्पिकादेरिति ६, सप्तम्यपि पूर्वोक्ता, | नवरं यथाऽवस्तृतमेव शिलादिकं ग्रहीष्यामि, नेतरदिति ७ । तथा 'सत्तिक्कय'त्ति सप्तसप्तैककाः अनुद्देशतयै| कसरत्वेनैककाः अध्ययनविशेषा आचाराङ्गद्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायतः सप्तेतिकृत्वा ससैकका अभिधीयन्ते तेषामेकोऽपि ससैकक इति व्यपदिश्यते तथानामत्वात्, नामानि च प्रागुक्तानि । 'मह Jain Education International For Private & Personal Use Only यतिप्रतिक्रमणे पा क्षिकसू त्रार्थः ॥ ९७ ॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy