SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तु संलीनकरपादादेरवस्थानं यदिति । अनेन च भङ्गत्रयाभिधानेनान्यदपि द्विकसंयोगभंगत्रयं सूचितं, तद्यथामनोवाक्सत्येन १ मनःकायसत्येन २ वाकायसत्येन ३ चेति त्रिविधेनापि मनोवाक्कायरूपेण सत्यवित् शुद्धसंयमपालक इत्यर्थः अनेन च त्रिकसंयोगभङ्गो दर्शितः, केवलमनः १ केवलवचन २ केवलकाय ३ मनोवाक् ४ मन:काय ५ वाकाय मनोवाकायेने ७ त्येवं सप्तविकल्पेन संयमेन रक्षामि३॥ चतस्रो दुःखशय्या द्रव्यतो दुष्टखट्वारूपा भावतस्तु दुःश्रमणताखभावाः प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ लानादिप्रार्थनविशेषिताः, चतुरः कषायान् क्रोधमानमायालोभरूपान्, चतस्रः संज्ञा आहारभयमैथुनपरिग्रहरूपाः परि०। चतस्रः सुखशय्या दुःखशय्याविपरीताः, चतुर्विधं संवरं मनोवाक्कायोपकरणसंवरभेदात्, समाधि च प्रशस्तभावं ज्ञानदर्शनचारित्रतपोरूपं, उप०४। पञ्चैव कामगुणान् शब्दरूपरसगंधस्पर्शरूपान्, पञ्चैव आनौति-आदत्ते कर्म यैस्तान आश्नवान् आश्रवानित्यर्थः प्राणातिपातादीन् महादोषान् परि०, शेष। पञ्चेन्द्रियसंवरणं-स्पर्शनादीन्द्रियनिग्रहणं ततः पञ्चविधमेव स्वाध्यायं-वाचनादिरूपं, उप० शेषं०५। षड्जीवनिकायवधं पृथिव्यादिवधं, षड्विधभाषा अप्रशस्ताः हीलिता १ खिसिता २ परुषा ३ अलीका ४ गार्हस्थी ५ उपशामिताधिकरणोदीरण ६ भाषारूपाः, तत्र हीलिता-अवज्ञागर्भा १ खिंसिता-सनिन्दा २ परुषा-गाल्यादिसहिता ३ अलीका-असत्या ४ गार्हस्थी-18 |पितृपुत्रादिसंबन्धयुक्ता ५ उप० उपशमितकलहप्रवर्तनी ६, परि० शेषं। पनिअभ्यन्तरं तपःकर्म-प्रायश्चिसत्तादिरूपं, बाह्यमपि षड्विधं तपःकर्म-अनशनादिरूपं, उप. शेषं०६। सप्त भयस्थानानि पूर्वोक्तानि प्रसिद्धानि, For Private Personal Use Only H@ Jain Education in www.jainelibrary.org AN
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy