________________
मुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततःप्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति ॥१॥".नरवीर इति व्यासेन युधिष्ठिरसंबोधनमिति । 'चः' पुनः 'अस्य' मरणस्य 'दारुणो विपाकः' अतिरौद्रः परिभवः, कस्माखेतोः ?-'सर्वचेष्टानिवर्तनात् सर्वासां चेष्टानां-हिताहितप्राप्तिपरिहारार्थानां क्रियाणां निवर्त्तनात्-उपरमात्, 'इति' 'अमुना दुर्लभं मानुषं जन्मेत्यादि 'दारुणश्च विपाकोऽस्येति पर्यन्तप्रकारेण 'खत एवं' स्वभावेनैव 'हि' निश्चये 'विज्ञातसंसारनैर्गुण्यः' विज्ञात-अवबुद्धं संसारस्य-प्रसिद्धस्य नैर्गुण्यं-निःसारता येन स तथा [संसारसारताभावितचित्तस्य विषयतृष्णाऽनुपरमात् ] ५। 'तत एव' संसारनैगुण्यज्ञानादेव 'तद्विरक्तः' संसारनिविष्णः, अनिर्विण्णस्य मधुबिन्दुकाखादकादेरिव दुस्त्यजत्वात् संसारस्य ६। तथा 'मन्दकषायभाक अल्पकषायवान्, तथाविधो हि खस्य परस्य च क्रोधानुबन्धमपनयन्नासादयत्येव योग्यतां ७ । ७६। तथा 'अल्पः' प्रतनुः 'हास्यादिविकृतिः' हास्यादिनोकषायविकारो यस्य स तथा, बहुहास्यादेरनर्थदण्डरूपत्वात्, तस्य च गृहिणामपि निषिद्धत्वात् ८॥ तथा कृतं जानातीति कृतज्ञः, [अकृतज्ञस्य लोकेऽप्यतिगहणीयत्वात् ]९। तथा 'विनयान्वितो' विनयवान् धर्मस्य विनयमूलत्वात् १० । 'च' पुनः 'नृपादीनां राजामात्यप्रभृतीनां 'सम्मतो' बहुमतः, राजादिविरोधिनो हि प्रवाजने प्रत्युतानर्थसम्भवात् ११। तथा 'अद्रोही' कस्याप्यवञ्चकः १२। तथा 'सुन्दराङ्गभृत्' रुचिरशरीरधारकः, अविनष्टदेहावयव इत्यर्थः, विनष्टावयवस्य दीक्षानहत्वाद्यतः-हत्थे पाए कन्ने नासा उढे विवजिआ चेव । वामण वडंभ खुज्जा पङ्गुल कुंटा य काणा य ॥१॥” वामना हीनहस्तपादाद्यवयवा
Jan Education inte
For Private
Personal Use Only