________________
धर्मसंग्रहाख्यानमित्याह-तद्यथा-अर्हत्साक्षिकं, सिद्धसाक्षिकं, साधुसाक्षिकं, देवसाक्षिकं, आत्मसाक्षिकं,' अत्र अर्हन्तःशयतितिअधिकारः साक्षिणः समक्षभाववर्तिनो यत्र तदहेत्साक्षिकं, यथा स्यात्तथेत्यादिरथैः। एवमिति प्रत्याख्याने कृते सति भव-15
क्रम० पा18|ति-जायते भिक्षुर्वा-साधुर्भिक्षुकी वा-साध्वी वा, 'संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यतःक्षिकसूत्र.
संयतः सप्तदशप्रकारसंयमोपेतः, विविधमनेकधा द्वादशविधे तपसि रतो विरतः, संयतश्चासौ विरतश्च, तथा 'प्रतिहतं' स्थितिहासतो ग्रन्थिभेदेन विनाशितं 'प्रत्याख्यातं हेत्वभावतः पुनर्वृद्ध्यभावेन निराकृतं पापकर्म ज्ञानावरणीयादि येन स तथा, पुनः कर्मधारयः, तत् खलु प्राणातिपातस्य विरमणं हितं 'सुखं च तत्तत्कारित्वात् 'क्षम' तारणसमर्थ, निःश्रेयसो-मोक्षस्तद्धेतुत्वान्निःश्रेयसं तदेव नैःश्रेयसिकम् , आनुगामिकं-अनुगमनशीलं, पारगामिक-पारगमक, कथमिदमेवंभूतमित्याह-'सर्वेषां' 'प्राणानां' द्वित्रिचतुरिन्द्रियाणां भूतानां' तरूणां 'जीवानां' पञ्चेन्द्रियाणां 'सत्त्वानां' पृथिव्यादीनां 'अदुःखनतया' अदुःखकरणतया 'अशोचनतया' अशोकोत्पादनेन 'अजरणतया' जीर्णत्वाविधानेन 'अतेपनतया' खेदाद्यनुत्पादनेन 'अपीडनतया' पादाद्यनवगाहनेन (अपरितापनतया-संतापकारित्वाभावेन) 'अनुपद्रवणतया' मारणपरिहरणेन, किंचेदं प्राणातिपातविरमणपदं महार्थ | महागुणं महानुभावं महापुरुषानुचीर्ण परमर्षिदेशितं प्रशस्तं तत्प्राणातिपातविरमणं दुःखक्षयाय कर्मक्षयाय मोक्षाय बोधिलाभाय संसारोत्तारणाय मे भविष्यतीति गम्यते, 'इतिकृत्वा' इतिहेतोः उपसंपद्य तत् सामस्त्येनाङ्गीकृत्य 'णं' इति वाक्यालङ्कारे 'विहरामि' मासकल्पादिना साधुविहारेण, अन्यथा व्रतप्रतिपत्तेर्वैयर्थ्य
Jain Education in
For Private
Personel Use Only
wि .jainelibrary.org