SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ निवृत्तिलक्षणस्य-सर्वव्यापारनिवृत्तिचिह्नस्य १७, पञ्चमहाव्रतयुक्तस्य १८, असन्निधिसञ्चयस्य १९, अविसंवादिनः। १/२०, संसारपारगामिनः, भवतारकस्येत्यर्थः २१, निर्वाणगमनपर्यवसानफलस्य, निर्वाणगमन-मोक्षगमनमेव पर्य-13| वसानं परमार्थरूपं फलं यस्य स तस्य २२, तादृशस्य धर्मस्य पूर्वमज्ञानतया १ अश्रवणतया-अनाकर्णनेन २अबोध्या-अबोधेन ३ अनभिगमेन-सम्यगप्रतिपत्त्या ४ अभिगमेन वा-विभक्तिव्यत्ययादभिगमे वा-सम्यगधर्मप्रतिपत्तौ वा प्रमादेन १ रागद्वेषप्रतिबद्धतया २ बालतया-मूढत्वेन शिशुत्वेन वा ३, मोहतया-मिथ्यात्वादिमोहोदयेन४, मन्दतया-अलसतया ५, क्रीडनया-केलिकिलतया ६, त्रिगौरवगुरुतया-ऋद्धिरससातगौरवभारिकतया ७, चतुष्कषायोपगतेन ८, पञ्चेन्द्रियोपवशाहून ९, प्रत्युत्पन्नभारिक(त)या-प्रत्युत्पन्नो-वर्तमानोयो भार:-कर्मसमूहः स विद्यते यस्यासौ प्रत्युत्पन्नभारिकः तस्य भावस्तत्ता तया १०, सातात-सातकोदयात् सौख्यं सातसौख्यं तदनुपालयता, सुखासक्तमनसेत्यर्थः ११ 'इहं वेति अस्मिन् वा भवे-वर्तमानजन्मनि 'अन्येषु वा भवग्रहणेषु' अतीतानागतेषु प्राणातिपातः कृतो वा कारितोवा क्रियमाणो वा परैः समनुज्ञातःतं निन्दामि गरिहामि त्रिविध कृतादिभेदस्त्रिप्रकारं त्रिविधेन-मनसा वाचा कायेन, साम्प्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह-अतीतं निन्दामि 'प्रत्युत्पन्नं वर्तमानं संवृणोमि अनागतं प्रत्याख्यामि, किं तदित्याह-'सर्व प्राणातिपातं' [इदमेवानागतप्रत्याख्यानं सविशेषमाह-] यावज्जीवमनिश्रितोऽहं निश्रारहित आशंसामुक्त इत्यर्थः, नैव स्वयं प्राणान् अतिपातयामि, नैवान्यैः प्राणान् अतिपातयामि,प्राणानतिपातयतोऽप्यन्यान्न समनुजानामीति कतिसाक्षिकमिदं प्रत्या Jain Education Intel For Private & Personel Use Only N w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy