________________
धर्मसंग्रहे अधिकारः
३
॥ ९१ ॥
Jain Education
| मोक्खयाए बोहिला भाए संसारुत्तारणाएत्तिकड्ड उवसंपजित्ता णं विहरामि । पढमे भंते! मह उवओम | सघाओ पाणाइवायाओ वेरमणं ॥ १ ॥ " स प्राणातिपातश्चतुर्विधः 'प्रज्ञप्तः' कथितः, 'तद्यथा' स च यथा द्रव्यतः क्षेत्रतः कालतः भावतः । तत्र द्रव्यतो द्रव्यमाश्रित्य णं इति वाक्यालङ्कारे, प्राणातिपातः षट्सु | जीवनिकायेषु पृथिव्यप्तेजोवायुवनस्पतिन्त्रसरूपप्राणिगणेषु, क्षेत्रतः प्राणातिपातः सर्वलोके चतुर्दशरज्ज्वात्मके, | कालतः प्राणातिपातो दिवा वा रात्रौ वा, भावतः प्राणातिपातो रागेण वा द्वेषेण वा, एवं प्राणातिपातं भेदतोऽभिधाय तस्यातीतकालविहितस्य सविशेषं निन्दामाह-'जं मए' इत्यादि, यो मयाऽस्य धर्मस्य केवलिप्रज्ञ| सादिद्वाविंशतिविशेषणविशेषितस्य पूर्वमज्ञानतादिभिश्चतुर्भिः प्रमादादिभिश्चैकादशभिः कारणैः प्राणातिपातः कृतः, तं निन्दामीत्यादिसंबन्धः । 'जं' तिविभक्तिव्यत्ययाद्यः प्राणातिपात इति योगस्तत्र मयेति प्रतिक्रामकसाधुरात्मानं निर्दिशति, अस्य धर्मस्य यत्याचारस्य, किंविशिष्टस्य ? - केवलिप्रज्ञप्तस्य १ अहिंसालक्षणस्य-अहिंसाचिह्नस्य २ सत्याधिष्ठितस्य ३ विनयमूलस्य ४ क्षान्तिप्रधानस्य ५ अहिरण्यसुवर्णस्य ६ उपशमप्रभवस्य ७ नवत्रह्मचर्यगुप्तस्य- नवब्रह्मगुप्तियुक्तस्य ८ अपचमानस्य न विद्यन्ते पचमानाः - पाचकाः यत्रासौ, पाकक्रियानिवृत्तसत्त्वासेवितस्य, अथवा अप्रमाणस्य ९ भिक्षावृत्तिकस्य, भिक्षया वर्त्तनं यत्र १० कुक्षिशम्बलस्य भुक्तिमात्रपाथेयस्य ११ निरग्निस्मरणस्य-अग्निस्मरणरहितस्य निरग्निशरणस्य वा १२ संप्रक्षालितस्य - क्षालितसर्वमलस्य १३, त्यक्तदोषस्य परिहृतरागादेः १४, गुणग्राहिकस्य गुणानुरक्तस्य १५, निर्विकारस्य इंद्रियमनोविकाररिक्तस्य १६,
For Private & Personal Use Only
यतिप्रति
क्रम० पा
क्षिकसूत्र ०
॥ ९१ ॥
www.jainelibrary.org