________________
२ सवाओ अदिण्णादाणाओ वेरमणं ३ सवाओ मेहुणाओ वेरमणं ४ सवाओ परिग्गहाओ वेरमणं ५ सबाओ राईभोयणाओ वेरमणं ६" [प्रश्नसूत्रं छठेति यावत्, सेशब्दश्चाथार्थे, किमिति परिप्रश्ने, ततश्चायं वाक्यार्थःअथ किं तद्वस्तु महाव्रतोच्चारणा? अथवा प्राकृतशैल्याऽभिधेयवल्लिङ्गवचनानीति न्यायादथ ] का सा महाव्रतोचारणा ?, गुरुराह-'महाव्रतोच्चारणा पञ्चविधा प्रज्ञप्ता रात्रिभोजनविरमणषष्ठा, तद्यथा' 'सर्वस्मात् त्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाचेत्यर्थः 'प्राणातिपातात्' जीवहिंसनात् विरमणं 'सर्वस्मात्' हास्यलोभादिभवात् 'मृषावादात् असत्यवचनाद्विरमणं 'सर्वस्मात् दन्तविशोधनमात्रग्रहणरूपात् अदत्तादानात्-स्तेयाद्विरमणं सर्वस्मात् स्त्रीकथादिमात्रात् 'मैथुनात्'कामसङ्गाद्विरमणं 'सर्वस्मात्'मूर्छामात्ररूपात् परिग्रहाद्विरमणं 'सर्वस्मात् पचन (आहार) मात्रग्रहणात् (दिवागृहीतदिवाभुक्तादिभेदभिन्नात् इति प्रत्यन्तरं) रात्रिभोजनाद्विरमणं, इत्युक्त्वा प्रथमव्रतस्योचारमाह-"तत्थ खलु पढमे भंते ! महबए पाणाइवायाओ वेरमणं, सवं । भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, णेव सयं पाणे अइवाएजा णेवण्णेहिं पाणे अइवायाविजा पाणे अइवायंतेवि अण्णे ण समणुज्जाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, ण करेमि ण कारवेमि करतंपि अण्णं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" 'तत्र' महाव्रतोचारणे 'खलु निश्चयेन 'भन्ते' भदन्त इति, गुर्वग्रे प्रतिक्रमणार्थं पूज्यसंबोधनं, 'प्रथमे महाव्रते प्राणातिपाताद्विरमणं' विरमणं सर्वथा निवृत्तिरिति सर्वत्र व्याख्येयं, कैश्चिदत्र सप्त
Jain Education in
For Private & Personal Use Only For Priumtar
Yojww.jainelibrary.org