SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥ ९० ॥ Jain Education Inter मीस्थाने प्रथमा कथ्यते, प्रथमं महाव्रतमिति सर्वत्रापि प्रथमां कथयन्ति सर्वं भदन्त ! प्राणातिपातं 'प्रत्या| ख्यामि' परित्यजामि, अत्र यदुक्तं सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामि तदेव विशेषतोऽभिधित्सुराह - 'से सुहुमं वेत्यादि सेशब्दः तद्वतवाचकः (तद्यथार्थे) 'सूक्ष्मं वा' पञ्चेन्द्रियागोचरं ज्ञानालोक्यं 'बादरं वा' इन्द्रियविषयं 'सं वा' तेजोवायुद्वीन्द्रियादिपञ्चेन्द्रियान्तरूपं 'स्थावरं वा' पृथिव्यम्बुवनस्पतिरूपं, वाशब्दाः परस्परापेक्षया | समुच्चये, अमी प्राणा-जीवाः, तान् किमित्याह - नैव स्वयं प्राणान् 'अतिपातयामि' हन्मि नैवान्यैः प्राणान् 'अतिपातयामि' विघातयामि, प्राणान् अतिपातयतोऽन्यान् न समनुजानामि 'जावज्जीवाए' इत्यादि - [ यावज्जीवं यावत् प्राणधारणं, किमित्याह-त्रिविधं - त्रिप्रकारं प्राणातिपातमिति गम्यं 'त्रिविधेन' करणेन, एतदेव दर्शयति मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमन्यं 'न समनुजानामि' नानुमन्येऽहं तस्य त्रिकाल - भाविनो प्राणातिपातस्य संबन्धिनमतीतमवयवं भदन्त ! 'प्रतिक्रमामि' मिथ्यादुष्कृतं यच्छामि 'निन्दामि' आत्मसाक्षिकं जुगुप्से 'गर्हामि' परसाक्षिकं तदेव, किं जुगुप्से ? इत्याह- 'आत्मानं' प्राणातिपातकारिणमश्लाघ्यं तथा 'व्युत्सृजामि' भृशं त्यजामीत्यर्थः ] । पुनरपि द्रव्यादिभेदैः प्राणातिपातव्याख्यानमाह - "से पाणाइवाए चउविहे पन्नते, तंजहा - दवओ खित्तओ कालओ भावओ, दवओ णं पाणाइवाए छसु जीवनिकाए, खित्तओ णं पाणाइवाए सबलोए, कालओ णं पाणाइवाए दिया वा राओ वा, भावओ णं पाणाइवाए रागेण वा दोसेण वा, जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्टियस्स विणयमूलस्स खंतिपहा For Private & Personal Use Only प्रतिक्रमण व्याख्या 1180 11 jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy