SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः प्रतिक्रमण व्याख्या ॥ ८९॥ कान् ?-'तीर्थकरान्' वीतरागान् 'तीर्थान्' प्रथमगणधरसङ्घादीन् 'अतीर्थसिद्धान्' 'तीर्थसिद्धान्' "सिद्धांश्च' सिद्ध-1 प्रकारद्वयव्याख्या सिद्धस्तवादवसेया 'जिनान्' सामान्यकेवलिनः 'ऋषीन्' मूलगुणोत्तरगुणयुतान् यतीन् 'महपीन्' तादृग्विधानेवाणिमादिलब्धियुतान् मुनीन् 'ज्ञानं पंचविधं वन्दे, सर्वत्र योज्यं । “जे य इमं गुणरयणसा-1 गरमविराहिऊण तिण्णसंसारा । ते मंगलं करित्ता, अहमवि आराहणाभिमुहो ॥२॥” 'ये' मुनयः 'इमं 'गुणरत्नसागरं' 'अविराध्य' सम्यक् पालयित्वा 'तीर्णसंसारा' निस्तीर्णभवाः ते मङ्गलं क्रियासुः अहमपि आराधनाभिमुखः गुणरत्नसागरस्य, मुनीनां चाराधनायामेकचित्त इत्यर्थः । पुनरपि स्वस्य मङ्गलार्थ अहद्धर्मयोरा|शिषमाह-"मम मंगलमरिहंता, सिद्धा साहू सुयं च धम्मो अ । खंती गुत्ती मुत्ती अजवया मद्दवं चेव ॥३॥" 'अर्हन्तो' जिनाः 'सिद्धाः' पञ्चदशभेदाः 'साधवो' मुनयः 'श्रुतं' आगमः 'धर्मों' यतिश्राद्धाचारलक्षणः, 'क्षांतिः' तितिक्षा 'गुप्तिः' मनोवाक्कायरक्षणं 'मुक्तिः' निर्लोभता 'आर्जवं निायिता 'माईवं' निर्मदता, मम मङ्गलं क्रियासुः, क्रियासुरित्यनुवर्तते । महाव्रतोच्चारसूचनमाह-"लोगम्मि संजया जं करेंति परमरिसिदेसियमुआरं । अहमवि उवहिओ तं महत्वयउच्चारणं काउं॥४॥"'लोके' कर्मभूमिरूपे 'संयताः' मुनयो 'यत्कुर्वन्ति' विदधति, किं तत् ?-'परमर्षिदेशितं' तीर्थकरादिकथितं 'उदारं' बलवत्तरं 'महाव्रतोचारणं' पञ्चमहाव्रतकथनं 'अहमपि' तन्महाव्रतोचारणं कर्तुमुपस्थितः-प्रहीभूतः। “से किं तं महत्वयउच्चारणं?, महत्वयउच्चारणा पंचविहा |पण्णत्ता राईभोयणवेरमणछट्ठा, तंजहा-सबाओ पाणाइवायाओ वेरमणं१ सवाओ मुसावायाओ वेरमणं | ST॥८९॥ Jain Education intamanna For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy